________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतद्भुत्तिर्यथा-" अथवेति सामान्यरूपप्रकारदर्शने / 'चिय'त्ति एवा ततः सर्वमेव वीतरागवचनानुसारि जिनमतानुयायि यत्सुकृतं जिनभवन-बिम्बकारण-तत्प्रतिष्ठा-सिद्धान्तपुस्तकलेखन-तीर्थयात्रा-श्रीसंघवात्सल्य-जिनशासनप्रभावना-ज्ञानाद्युपष्टम्भ-धर्मसांनिध्यक्षमामाईक्संवेगादिरूप मिथ्याकसंवन्ध्यपि मार्गानुयायिकूत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद् भवति भविष्यति चेति तत्तदित्यर्थः, तत्सर्वं निरवशेषमनुमन्यामहे हर्षगोच-- रतां प्राययाम इति // " ननु मार्गानुसारिकृत्यं न जैनाभिमतधानिकानुष्ठानानुकारिमिथ्यादृष्टिमार्गपतितं क्षमादिकम् , किन्तु सम्यक्त्वाभि खगतं जैनाभिमतमेव, तच्च सम्यग्दृष्टिगतानुष्ठानान्न पार्थक्येन गणयितुं शक्यमित्याशङ्कायामाह-तन्मार्गानुसारिकृत्यं शिवमार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य कारणं धीरैनिश्चितागमतत्त्वैर्लिङ्गैः " पावं ण तिव्य भावा कुणई". इलायपुनबन्धकादिलक्षणैर्गम्यम् / अयं भाव:-सम्यग्दृष्टिकृत्यं यथा वस्तुतश्चारित्रानुकूलमेवानुमोदनीयं तथा मार्गानुसारिकृत्यमपि सम्य क्त्वानुकूलमेव / स्वल्पकालप्राप्तव्याफलज्ञानं च तत्रानुमोदनीयतायां न तन्त्रम् , किन्तु स्खलक्षणज्ञानमेव / तथा च यत्र भवाभिनन्दिदोषप्रतिपक्षगुणानामपुनर्बन्धकादिलक्षणानां निश्चयस्तत्र मार्गानुसारिकृत्यानुमोदनायां न बाधकम् , विविच्याग्रिमकालभाविफलज्ञानस्य प्रवर्तकत्वे तु छास्थस्य प्रवृत्तिमात्रोच्छेदप्रसङ्ग इति / अत एव मार्गानुयायिकृत्यं लक्षणशुद्धं जिनभवनकारणाद्येवोक्तम् , तस्यैव मोक्षमार्गकारणत्वाद् / मोक्षमार्गो हि भावाज्ञा सम्यग्दर्शनादिरूपा, तत्कारणं चापुनर्बन्धकचेष्टा द्रव्याज्ञा / तत्र भावाजा मोक्ष प्रति कारणत्वेनानुमोदनीया, द्रव्याज्ञा तु कारणकारणत्वेनेति न कश्चिद्दोष इति / तदिदमुक्तं व्यक्तैवाराधनापताकायाम्-- अह दुक्कडगरहानलज्ञामियकर्मिमधणो पुणो भागइ (?) सुकडाणुमोअणं तिव्वसुद्धपुलयंचियसरीरो // 1 // पापं न तीवभावात्करोति // अथ दुष्कृतगीऽनलध्यातकर्मन्धनः पुनः...... / सुकृतानुमोदनं तीव्रशुद्धपुलकाञ्चितशरीरः // 1 // For Private and Personal Use Only