________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाविरतसम्यग्दृष्टयादावविरत्यादेर्न स्फुटदोषप्रतिसन्धानमेव च तद्गतप्रशंसाया दोषानुमतिपर्यवसानबीजम् , अत एव शैलकराजर्षिप्रभृतीनां पार्श्वस्थत्वादिस्फुटदोषप्रतिसन्धाने हीलनीयत्वमेवोक्तं शास्त्रे न तु गुणसामान्यमादाय प्रशंसनीयत्वम् , तत्कालीनतत्पशंसाया दोषानुमतिरूपत्वादित्यविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिगुणानुमोदनेन दोष इति चेत् / तर्हि मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वमपि न स्फुटो दोषः, तत्त्वेतरनिन्दनाशुपहितप्रबलमिथ्यात्वस्यैव स्फुटदोषत्वादिति तद्गतगुणप्रशंसायामपि न दोषः, / अवश्यं चैतदित्थं प्रतिपत्तव्यम् , अन्यथा मेघकुमारजीवहस्तिनोऽपि दयागुणपुरस्कारेण प्रशंसानुपपत्तिरिति / अन्यतीर्थिकपरिगृहीतत्वं चाहत्प्रतिमायामिव दयादिगुणेषु न स्फुटो दोषः, दयादिगुणानामभिनिविष्टान्यतार्थिकसाक्षिकत्वाभावेन मिथ्यात्ववृद्धिनिबन्धनत्वाभावात्, प्रत्युत तत्त्वतो जिनप्रवचनाभिहितत्वप्रतिसन्धानेन तदस्फुटीकृतमेव / अतः 'स्तोकस्थापि भगवदभिमतस्य गुणस्योपेक्षा न श्रेयसी' इत्यध्यवसायवशायां तत्प्रशंसा गुणानुरागातिशयद्वारा कल्याणावहा / अत एय गुगानुरागसंकोचपरिहाराय स्तोकगुणालम्बनेनापि भक्त्युद्धानं विधेयमित्युपदिशन्ति पूर्वाचार्याः। तदुक्तं बृहत्कल्पभाष्यवृत्त्योः देसणनाणचरित्तं तवरिणयं जत्थ जत्तियं पासे / जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं / / . "दर्शनं च निःशक्षितादिगुणोपेतं सम्यक्त्वं, ज्ञानं चाचारादि, चारित्रं च मूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्र द्वन्द्वैकरद्भावः / एवं तपश्चानशनादि, विनयश्चाभ्युत्थानादिरूपस्तपोविनयम् / एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावर यत्परिमाणं स्वल्पं बहु वा जानीयात् , तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेद् " इति // तेन मार्गानुसारिकृत्ये सर्दमपि माश्योगादनुमोदनीयं प्रशंसनीयं चेति सिद्धम् // 35 // दर्शनशानचारित्रं तपोधिनयं यत्र यावत्पाद्यं / जिनशतं भवत्या पूनये तं रान भावम् // For Private and Personal Use Only