________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तासामपि तीर्थत्वात् जिनयिम्बत्वाच्च। तथाऽत्रापि मिथ्यादृशां गुणाः 'सर्वेषां जीवानां दयाशीलादिकं शोभनम् ' इत्येवं सामान्यरूपेणानुमोद्यमानाः केन वारयितुं शक्यन्ते ? इति / युक्तं चैतत् , धर्मबिन्दु सूत्रवृत्त्योरपि सद्धर्मदेशनाधिकारसाधारण्येन लोकलोकोत्तरगुणप्रशंसाप्रतिपादनात् / तथाहि " साधारणगुणप्रशंसेति” // " साधारणानां लोकलोकोत्तरयोः सामान्यानां गुमानां प्रशंसा-पुरस्कारो देशनार्हस्याग्रतो विधेया। यथा प्रदाने प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः / अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः श्रुते चासंतोषः कथमनभिजाते निवसति // " इति / . इयं च पुरुषविशेषानुपग्रहात्सामान्यप्रशंसैवेति / यद्यप्यत्रापि वाक्यार्थस्य विशेष एव पर्यवसानम् , तथाऽपि साधारणगुणानुरागस्यैवाभिव्यङ्ग्यत्वान्न मिथ्यात्वाभिवृद्धिरिति द्रष्टव्यम् / स्यादन परस्वेदमाशङ्का-एवं सति मिथ्यादृष्टेः पुरुषविशेषस्य दयाशीलादिगुणपुरस्कारेण प्रशंसा न कर्तव्या स्यात् , अन्यतीर्थिकपरिगृहीतात्पतिमाया विशेषेणावन्द्यत्ववद् अन्यतीर्थिकपरिगृहीतगुणानामपि विशेषतोऽप्रशंसनीयत्वात् / दोषवत्त्वेम प्रतिसंधीयमाने पुरुषे तद्गतगुणप्रशंसायास्तद्गतदोषानुमतिपर्यवसितत्वात् / अत एव सुखशीलजनवन्दनप्रशंसयोस्तगतप्रमादस्थानानुमोदनापत्तिरुक्ता। " किइकम्मं च पसंसा सुहसीलजणंमि कम्मबंधाय / जे जे पमायठाणा ते ते उववूहिया हुँति / / " इत्यादिना आवश्यकादाविति // तत्र ब्रूमः-यदि नाम तद्गतदोषज्ञानमेव तत्प्रशंसायास्तदीयतद्दोषानुमतिपर्यवसायकमिति मिथ्यादृष्टिगुणप्रशंसात्यागस्तवाभिमतस्तदाविरतसम्यग्दृष्टः सम्यक्त्वादिगुणप्रशंसाऽप्यकर्तव्या स्यात् , तद्गताविरतिदोषज्ञानात्तस्यास्तदनुमतिपर्यवसानात् / कृतिकर्म च प्रशंसा सुखशीलजे कर्मबन्धाय / ये ये प्रमादस्थानानि ते ते उपबृंहितानि भवन्ति // For Private and Personal Use Only