________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नान्यस्य, "जो चेव भावलेसो सो चैव भगवओ अणुमओ।" इत्यत्र भगवद्वहुमानरूपस्यैव भावलेशस्यानुमोद्यत्वप्रतिपादनादिति चेद् / न, अन्यत्रापि भवाभिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तत्त्वतो भनवद्वहुमानरूपत्वाद् भवनिर्वेदस्यैव भगवद्वहुमानत्वाद् ' इति ललितविस्तरापत्रिकावचनात् , स्वरूपशुद्धं चानुष्ठानं सर्वत्रापि तत्त्वतो भगवत्प्रणीतमेवेति, तत्प्रशंसया भवत्येव भगवद्वहुमानः। व्युत्पन्ना ह्यन्यशास्त्रे कथंचिदुपनिषद्धानपि मार्गानुसारिगुणान् भगवत्प्रणीतत्वेनैव प्रतियन्ति / तदाहुः श्रीसिद्धसेनसूरयः" सुनिश्चितं यः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः / तदेव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविघुषः ॥"इति नन्दिवृत्तावप्येवमेवोक्तम्-" परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनार्थः संसारासारता-स्वर्गादिहेतुप्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः / न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितार्थः पुरुपमात्रेणोपदेष्टुं शक्यते, अविषयत्वाद् / न चातीन्द्रियार्थपरिज्ञानं परतीर्थिकानामस्तीत्यग्रे वक्ष्यामः / ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वमत्यनुसारेण तास्ताः प्रकियाः प्रपञ्चितवन्तः / उक्तं च स्तुतिकारेण-" सुनिश्चित०" इत्यादि। ननु दयादिवचनानि परमते तत्त्वतो जिनवचनमूलान्यपि स्वस्वमताधिदैवतवचनत्वेन परिगृहीतत्वादेव नानुमोदनीयानि, अत एव मिथ्यादृष्टिभिः स्वस्वदैवतबिम्बत्वेन परिगृहीतार्हत्प्रतिमाऽप्युपासकदशाङ्गादिष्ववन्द्यत्वेन प्रतिपादितेति चेत् / अत्र वदन्ति सम्प्रदायविदः यथा मिथ्यादृक्परिगृहीता तीर्थकृत्प्रतिमा मिथ्यात्वाभिवृद्धिनिवारणाय न विशेषेण नमस्क्रियते, सामान्येन तु " अं किंचि नाम तित्थं " इत्यादिना " जावंति चेइआइं०" इत्यादिना चाभिवन्द्यते एव, तत्वत 1 य एव भावलेशः स एव भगवतोऽनुमतः // 2 यत्किचिद् नाम तीर्थः / 3 यावन्ति चैत्यानि० // For Private and Personal Use Only