________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेणं 'ति। तेनानुमोदनाप्रशंसयोर्विषयभेदाभावेनानुमोदनीयं प्रशंसनीयं च सर्वं शुद्धं स्वरूपकृत्यं दद्या दान-शीलादिकं च जात्या स्वरूपयोग्यताऽवच्छेदकरूपेण भवति। यद्पावच्छेदेन यत्र सुन्दरत्वज्ञानं तद्रूपविशिष्टप्रतिसंधानस्य तद्पावच्छिन्नविषयकहर्षजनकत्वाद् / अत एव शुद्धाहारग्रहणदानाव्यिक्तीनां सर्वासामसुन्दरत्वेऽपि कासांचिचाशुद्धाहारदानादिव्यक्तीनामप्यवादकालभाविनीनां सुन्दरत्वेऽपि साधोः शुद्धाहारग्रहणं सुन्दरम् , श्रावकस्य च शुद्धाहारदानमित्ययमेवोपदेशो युक्तो न त्वशुद्धाहारग्रहणदानोपदेशोऽपि, सामान्यपर्य. वसायित्वात्तस्य; सामान्यपर्यवसानस्य च स्वरूपशुद्ध एव वस्तुन्युचितत्वात् , स्वरूपशुद्धं हि वस्तु जात्याऽप्यनुमोद्यमानं हितावहमिति / भावविशिष्टं तु-अपुनर्बन्धकादिभावसंवलितं तु, अन्यदपि विषयशु, धादिकमपि वस्त्वनुमोद्यम् / 'भावविशिष्टा क्रिया सुन्दरा' इत्यादिप्रशंसया भावकारणत्वेन विषयशुद्धादावपि कृत्ये स्वोत्साहसंभवात् / न चैवमपुनर्वन्धकोचितविषयशुद्धकृत्येऽपि साधोः प्रवृत्यापत्तिः, स्वाभिमततत्तद्धर्माधिकारीष्टसाधनत्वेन प्रतिसंहितेऽधस्तनगुणस्थानवयंनुष्ठाने स्वोत्साहसंभवेऽपि स्वाधिकाराभावेन तत्राप्रवृत्तेः / अत एव 'शोभनमिदमेतावजन्मफलमविरतानाम्' इतिवचनलिङ्गगम्यस्वोत्साहविषयेऽपि: ज़िनपूजादौ श्राद्धाचारे न साधूनां प्रवृत्तिरिति बोध्यम् / इत्थं च भावानुरोधादपुनर्बन्धकादेरारभ्यायोगिकेवलिगुणस्थानं यावत्सर्वमपि धर्मानुष्ठानमनुमोदनीयं प्रशंसनीयं चेति सिद्धम् // उक्तं चोपदेशपदसूत्रवृत्त्योः तो एअंम्मि पयत्तो ओहेणं वीअराअवयणमि / बहुमाणो कायव्वो धीरेहिं कयं पसंगेणं // ", " तत् तस्माद् एतस्मिन् धर्मबीजे प्रयत्नो यत्नातिशयः ' कर्तव्यों धीरैः / इत्युत्तरेण योमः / किंलक्षणः प्रयत्नः कर्तव्यः ? इत्याशङ्कय आह-ओपेन सामान्येन वीतरागवचने वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिप तत, एतस्मिन् प्रयत्न ओघेनः वीतरागवचने / बहुमानः कर्तव्यो धीरैः कृतं प्रसङ्गेन // For Private and Personal Use Only