________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं सति योऽनुमोदनाप्रशंसयोर्विषयभेदेन भेदमेवाभ्युपगच्छति लन्मतनिरासार्थमाहसामन्नविसेसत्ता भेओ अणुमोअणापसंसाणं। जह पुढवीदव्वाणं ण पुढो विसयस्स भएणं // 34 // 'सामन्नविसेसत्त'त्ति / अनुमोदनाप्रशंसयोः सामान्यविशेषत्वात् सामान्यविशेषभावानेदः, यथा पृथिवीद्रव्ययोः। द्रव्यं हि सामान्यं, पृथिवी च विशेषः। एवमनुमोदना सामान्यं प्रशंसा च विशेष इत्ये-- तावाननयोर्भेदः, न पुनः पृथग विषयस्य भेदेनात्यन्तिको भेदः, प्रशंसाया अनुमोदनाभेदत्वेन तदन्यविषयत्वासिद्धेः / नहि घटप्रत्यक्षं प्रत्यक्षभिन्नविषयमिति विपश्चिता वक्तुं युक्तम् , न च मानसोत्साहरूपाऽनुमोदनाया अपि प्रशंसाया भिन्नविषयत्वनियमः, प्रकृतिसुन्दरस्यैव वस्तुनः सम्यग्दृशामनुमोदनीयत्वात्प्रशंसनीयत्वाच / न चानुमोदनायाः स्वेष्टसाधकमेव वस्तु विषयः, तादृशस्यैव तपःसंयमादेरारम्भपरिग्रहादेर्वा विरतरविरतैश्वानुनोदनात्, न तु परेष्टसाधकम् , आत्मनश्थानिष्टसाधनमपि निजधनापहारस्याप्यनुमोदनीयत्वापत्तेः। प्रशंसायाश्चेष्टमनिष्टं च वस्तु विषयः, इष्टस्य धार्मिकानुष्ठानस्यानिष्टस्य चाज्ञायाह्यस्य वस्तुनः प्रशंसाव्यवस्थितेः / भवति हि निजकार्यादिनिमित्तमसद्गुणस्यापि प्रशंसा / अत एवायमागमोऽपि_ “चउहिं ठाणेहिं असंते गुणे दीवेज्जा, 1 अब्भासवत्तिय 2 परछंदाणुवत्तियं 3 कञ्जहेउ 4 कयपडिकइए"त्ति / ___ सा चेयमनिष्टप्रशंसाऽतिचाररूपापि प्रयोजनविशेषेण कस्यचित्कादाचिंतकी स्यादित्येतदपि वचनं शोभनम् , स्वारासिकप्रशंसाया अनिष्टाविषयत्वात् , पुष्टालम्बनकानिष्टप्रशंसाया अपीष्टविषयत्वप: र्यवसानात् / न हि किंचिजात्येष्टमनिष्टं वा वस्तु विद्यते, किंतु परिणा सामान्यविशेषत्वाद् भेदोऽनुमोदनाप्रशंसयोः।। यथा पृथिवीद्रव्ययोः, न पृथग् विषयस्य भेदेन // 34 / / चतुर्भिः स्थानैरसन्तो गुणान् दीपयेत् , 1 अभ्यासप्रत्ययं 2 परच्छन्दानुवर्तित्वं 3 कार्यहेतु 4 कृतप्रतिकृत्याः इति // For Private and Personal Use Only