________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणुमोअणाइ विसओ जंतं अणुमोअणिजय होइ। सो पुण पमोअमूलो वावारो तिण्ह जोगाणं // 33 // 'अणुमोअणाइ'त्ति / अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति / तद्विषयत्वं च भावस्य साक्षाद् भावप्रधानत्वात्साधूनाम् / तदुक्तमोघनियुक्तौ " परमरहस्समिमाणं समत्तगणिपिडयझरिअसाराणं / परिणामयं पमाणं णिच्छयमवलंबमाणाणं ॥'ति / तत्कारणक्रियायाश्च तदुत्पादनद्वारा / यद् हारिभद्रं वचः " कंजं इच्छंतेण अणंतरं कारणंपि इट्ठति / जह आहारजतित्तिं इच्छंतेणेहमाहारो // "त्ति / पुरुषस्य च तत्संबन्धितयेति तत्त्वतः सर्वत्र भावापेक्षमेवानुमोदनीयत्वं पर्ययस्यति / साऽनुमोदना पुनः प्रमोदमूलो हर्षपूर्वकस्त्रयाणां योगानां कायवाङ्मानसां व्यापारो रोमाञ्चोद्गम-प्रशंसा-प्रणिधानलक्षणो 'न तुःमानसव्यापार एव, अनुमोदनाया अपि योगभेदेन त्रिविधायाः सिद्धान्तप्रतिपादनात् / मानसव्यापारस्यैवानुमोदनात्वे प्रशंसादिसंवलनादनुमोदनाफलविशेषानुपपत्तेश्च / न च यथा नैयायिकैकदेशिनां मङ्गलत्वादिकमानसत्वव्याप्या जातिस्तथाऽस्माकमनुमोदनात्वमपि तथेति,त्रयाणामपि योगानां हर्षमूलो व्यापारोऽनुमोदनेति वस्तुस्थितिः यश्चानुमोदनाव्यपदेशः कचिञ्चित्तोत्साहे एव प्रवर्तते स सामान्यवाचकपदस्य विशेषपरत्वाद् निश्चयाश्रयणाद्वेत्यवधेयम् // 33 // अनुमोदनीया विषयो यद्वस्तु तदनुमोदनीयं भवति / . स पुनः प्रमोदमूलो व्यापारो त्रयाणां यागानाम् // 33 // परमरहस्यमेषां समस्तगणिपिटकक्षरितसाराणाम् / परिणामः प्रमाणं निश्चयमवलम्बमानानाम् // कार्यमिच्छता अनन्तरं कारणमिष्टमिति / यथाऽऽहारजतृप्तिमिच्छता इहाहारः // For Private and Personal Use Only