SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिनिगदितधर्मेभ्यः प्रधानोऽयम्' इत्येवं चिन्ता; वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः 'से' इति, यः कल्याणंभागी तस्य साधोरसमुत्पन्नपूर्वापूर्वस्मिन्ननादावतीतकालेऽनुपजाता, तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यभावात् समुत्पद्येत-जायेत / किं प्रयोजना चेयम् ? अत आह-सर्व निरवशेष धर्म जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणित्तए' ज्ञपरिज्ञयों ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम् / इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकरणरूपा जायते इति // " ___ अत्रापूर्वधर्मचिन्ताया उत्कर्षतोऽपार्द्धपुद्गलपरावर्त व्यवधानेन कल्याणकारणत्वमुक्तम् , अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गलपरावर्तव्यवधानेनेति प्रवचनपूर्वापरभावपर्यालोचनया गुणसामान्यस्य चरमावर्तमानत्वमस्माभिरुन्नीयते / यदि चैवमपि स्वतन्त्रपरतन्त्रसाधारणापुनर्बन्धकादिगुणानामपार्द्धपुद्गलपरावर्तमानत्वमेव सकलगीतार्थसंमतं स्यात् तदा नास्माकमाग्रह इत्यस्यां परीक्षायामुपयुक्तैर्भवितव्यं गीताथै H प्रवचनाशातनाभीरुभिः // 31 // तदेवं विवेचिता चतुर्भङ्गी, अथास्यां को भङ्गोऽनुमोद्यः ? को वान? इति परीक्षतेतिण्णि अणुमोयणिज्जा एएमुंणो पुणो तुरियभंगो। जेणमणुमोयणिज्जो लेसोवि हु होइ भावस्स // 32 // तिण्णित्ति / एतेषु देशाराधकादिषु चतुषु भङ्गेषु यो भङ्गा / देशाराधक-देशविराधक-साराधकलक्षणा अनुमोदनीया न पुनस्तुरीयो भङ्गः सर्वविराधकलक्षणः, येन कारणेन भावस्य लेशोऽपि ह्यनुमोदनीया, न चासौ सर्वविराधके संभवति, देशाराधकादिषु तु मार्गानुसारिभावविशेषसंभवात् , तदनुमोदनीयत्वे तद्वारा ते वामप्यनुमोदनीयत्वमावश्यकमिति भावः // 32 // अथ किसनुमोदनीयत्वम् ? का चातुमोदना ? इत्येतल्लक्षणमाह त्रयोऽनुमोदनीया एतेषु न पृनस्तरीयभङ्गः। येनानुमोदनीयो लेशोऽपि हि भावति भावस्य / / 32 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy