SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उक्तं चोपदेशपदे "एवं पाएण जणा कालणुभावा इहपि सव्वेवि। णो सुंदरत्ति तम्हा आणासुद्धेसु पडिबंधो॥" ति॥ एतद्वृत्तिर्यथा--एवमनन्तरोक्तोदाहरणवत्प्रायो बाहुल्येन जना लोकाः कालानुभावाद्वर्तमानकालसामर्थ्याद् इहापिजैनमतेऽपि सर्वेऽपि साधषः श्रावकाच नो-नैव सुन्दरा वर्तन्ते, किन्त्वनाभोगादिदोषाच्छात्रप्रतिकूलवृत्तय इति पूर्ववत् तस्मात्कारणादाज्ञाशुद्धेषु- सम्यगधीतजिनागमाचारवशाच्छुद्धिमागतेषु साधुषु श्रावकेषु च बहुमानः कर्तव्य इति // 30 // नन्वेवं विधिविकलब्यवहारस्याराधकत्वाप्रयोजकत्वेपि विधिशुव्यवहारस्य भावहीनस्याप्याराधकत्वप्रयोजकत्वे किं बाधकं परं प्रति, सस्य निश्चयप्रापकत्वाद् इत्यत आहभावुज्झियववहारा ण किंपि आराहगत्तणं होई। भावो उ बोहिबीजं सवण्णुमयंमि थोवोवि // 31 // भावोज्झिअत्ति / भावोज्झितव्यवहाराद् भवाभिनन्दिनां द्रव्यव्रतधारिणां विधिसमग्रादपि न किमप्याराधकत्वं भवति, परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याकारित्वाद् / भावस्तु सर्वज्ञमते स्तोकोऽपि बोधिबीजम् , विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद् / अत एवापूर्वा धर्मचिन्ताऽपि प्रथमं समाधिस्थानमुक्तम् / तदुक्तं समवायाङ्गे-" धम्माचता वा से असमप्पण्णपन्या समप्पजेजा सव्वं धम्मं जाणित्तए "ति // एतद्वृत्तिर्यथा-"तत्र धर्मा जीवादिद्रव्याणां संयोगोत्पादादयः स्वभावास्तेषां चिन्ता-अनुप्रक्षा, धमस्य वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य 'हरिहरा भावोज्ज्ञितव्यवहारान्न किमप्याराधकत्वं भवति / भावस्तु बोधिबीजं सर्वज्ञमते स्तोकोऽपि // 31 // एवं प्रायेण जना कालानुभावादिहानि सर्वेऽपि / न सुन्दरा इति तसादाबाशुद्धषु प्रतिबन्धः // 2 धर्मचिन्ता घात यासमुत्पमा समुपद्यत सर्व धर्म मातुम् // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy