________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइए भंगेत्ति। श्रुतवाँश्चैव शीलवाँच साधुस्तृतीयभङ्गे सर्वाराधकलक्षणे समवतारणीयः, उपरतत्वाद् भावतो विज्ञातधर्मत्वाच विप्रकारस्यापि मोक्षमार्गस्याराधकत्वात् / श्राद्धोऽपि चोपचारात्तृतीयभङ्ग एव, देशविरतौ सर्वविरत्युपचारात् ज्ञानदर्शनयोश्चाप्रतिहतत्वात् / तत्र च चतुर्थभङ्गे सर्वविराधकलक्षणे भवाभिनन्दी क्षुद्रत्वादिदोषवान् देशतोऽप्यनुपरतो मिथ्यादृष्टिरिति // 29 // अत्र केचिद्वदन्ति यो मिथ्यादृष्टिरन्यमार्गस्थः स सर्वविराधको भवतु, यस्तु जैनमार्गस्थः स भवाभिनन्यपि न तथा, व्यवहारस्य बलवत्त्वात् , “ववहारोवि हु बलवन्तो" इति पचनप्रामाण्यादिति तन्मतनिराकरणार्थसाहभावो जेसिमसुद्धो ते ववहारट्ठियावि एरिसया। णिच्छयपरंमुहो खलु ववहारो होइ उम्मग्गो॥३०॥ भावोत्ति / भावश्चित्तपरिणामो येषामशुद्धः-अपुनबन्धकाधुत्तीर्णत्वेन लेशेनापि निश्चयास्पर्शी ते व्यवहारस्थिता, अपि-स्वाभिमतैहिकप्रयोजनार्थं व्यवहारमाश्रिता अपि ईदृशकाः सर्वविराधका एव, निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गो भवतीति न तेषां क्लिष्टकर्मणां स त्राणायेति / यस्तु व्यवहारो बलवानभ्यधायि स निश्चयप्रापको न तु तद्प्रापकः / अत एष 'अविधिनाप्यभ्यासो विधेयः, दुःषमायां विधेर्दुर्लभत्वात् , तस्यैव चाश्रयणे मार्गाच्छेदप्रसङ्गाद.'-. इत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थ विधियात एव व्यवहारशुद्धिहेतु: शास्त्रे कर्तव्यतयोपदेशितः / तदुक्तं पञ्चाशक- . " औलोइऊण एयं तंतं पृबावरेण सूरीहिं / विहिजत्तो कायब्बो मुद्धाण हियट्ठया सम्मं / / " इति / भावो येषामशुद्धस्ते ब्यवहारस्थिता अपीदृशकाः / निश्चयपराङ्मुखः खलु व्यवहारो भवत्युन्मार्गः // 30 // 1 व्यवहारोऽपि खलु बलवान् / / आलोच्य एतं तन्त्र पूर्वापरेण सूरिभिः / / विधियन्तः कर्तव्यो मुग्धानां हितायीय सभ्यगा। For Private and Personal Use Only