________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्वहण देशाराधकः, विरतिपरित्यागेनैव चाविरतसम्यग्दृष्टिरपि देशविराधकः, "प्राप्तस्य तस्यापालनाद्" इति वचनात् इत्युभयोरपि प्रकारयोः सविषयत्वेन प्रामाण्यसिद्ध “यदप्रासेवा' इति विकल्पेन व्याख्यानं तत्केनाभिप्रायेण ? इति संशये सम्यगंवक्तृवचनं वयमापे श्रोतुकामा म इति बोध्यम् , यतो यद्यमाप्तिमात्रेण विराधकत्वं स्यात् तर्हि चरकपरिव्राजकादीनां ज्योतिषकादूर्ध्वमुपपाताभावः प्रसज्येत, मोक्षकारणभूतानां सम्यग्ज्ञानादीनां त्रयाणां लेशतोऽप्यभावेन देशविरतिसविरत्योयुगपद्विराधकत्वात् / तथा द्वादशाङ्गपर्यन्तनानाश्रुताबधिप्रवृत्त्यमाप्तिमान् छअस्थसंयतो दूरे, केवल्यप्यप्राप्तजिनकल्पादेविराधकः प्रसज्येत' इति यत्परेण प्राचीनग्रन्थदूषणरसिकेण प्रोक्तं तत्परिभाषाज्ञानाभावविजृम्भितमिति द्रष्टव्यम् / यो यदप्राप्तिमान् स तद्विराधक इति व्यातौ च तत्र तात्पर्याभावात्, किन्तुक्तपरिभाषायामेव तात्पर्यात् / तत्फलं च देशविराधकत्वेन देशद्वधाराधकल्वाक्षेपः / तथा च पूर्वभङ्गादाधिक्यं लभ्यते, तेन देशविराधकत्वेऽविरतसम्यग्दृष्टेदेशाराधकादप्यघमत्वं स्यादित्यपास्तम्, परिभाषितस्य विराधकत्वस्याधमत्वाप्रयोजकत्वात् प्रत्युत्त देशद्वयाराधकत्वाक्षेपकतयोत्कर्षप्रयोजकत्वात् / न च परिभाषा न सुत्रनीतिरिति शङ्कनीयम् , " सबामगंध परिचज निरामगंधोपरिजए" इत्यादीनां परिभाषासूत्राणामपि तन्त्रव्यवस्थापितत्वाद् / यदि च देशविराधकत्वं नैवं पारिभाषिकमङ्गीक्रियते, तदाऽनुपासतः सम्यग्दृष्टिः कस्मिन् सङ्गेऽवतारणीयः / न च नावतारणीय एव, सीराधकादन्यत्र सहकारियोग्यताभावाभिधानाय त्रिभिरेव भोः सर्वेषां तद्विलक्षणानां संग्राह्यत्वादिति सूक्ष्ममीक्षणीयम् // 28 // तृतीयचतुर्थभङ्गी विवेचयति-- तडए भंगे साह सअवंतो चेव सीलर्वतो अ। उवयारा सड्ढोवि य भवाभिणंदी चउत्थंमि // 29 // तृतीये भङ्गे साधुः श्रुतवाँश्चैव शीलवाँश्च / उपचारात् श्राद्धोऽपि च भवाभिनन्दी चतुर्थे // 29 // 1 सामगग्धं परित्यज्य निरामगन्धः परिव्रजेत् ॥(आचार ) For Private and Personal Use Only