________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 " एतद्वतियथा-दीक्षाविधान जिनदीक्षाविधिरेतदनन्तरोक्तं " भाविज्जत तु' ति भाव्यमानमपि पर्यालोच्यमानमपि आस्तामासेव्यमानं सकृद्वन्धकापुनबन्धकाभ्यामिति गम्यम् / अथवा भाव्यमानमेव नाभाव्यमानमपि, तुशद्धोऽपिशदार्थ एवकारार्थों वा, तन्वनीत्या आगमन्यायेन, कयोः ? इत्याह-सकूदेकदा न पुनरपि च बन्धो मोहनीयकर्मोत्कृष्टस्थिति बन्धनं ययौस्तौ सकूदपुनर्बन्धको तयोः, सकृद्वन्धकस्यापुनबन्धकस्य चेत्यर्थः / तथा यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतोऽभिन्नग्रन्थिः सकृदेवोत्कृष्टां सागरोपमकोटाकोटिसमतिलक्षणां स्थितिं भन्त्स्यति. असौ सकृदन्धक उच्यते, यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्नतां भन्स्यति भत्स्यति च ग्रन्थि सोपुनर्बन्धक उच्यते / एतयोश्चाभिन्नग्रन्थित्वन कुअहः संभवति, न पुनर्विरतसम्यग्दृष्ट्यादीनाम् , मार्गाभिमुखमार्गपतितयोस्तु कुनइसंभवेऽपि तत्त्याग एतद्भावनामात्रसाध्य इत्यत उक्तं-सकृद्धन्धकापुनर्बन्धकयोरिति / एतयोश्च भावसम्यक्त्वाभावादीक्षायां द्रव्यसम्यक्त्वमेवमारोप्यते इति कुनहविरहमसदभिनिवेशवियोगं लघु शीघ्रं करोति विधत्ते इति // ". तथा च धर्ममात्रफलानुष्ठानवतां गीतार्थनिश्रितसाधुश्रावकाणामपि भावतोऽनधिगतश्रुतज्ञानत्वाच्छीलवत्त्वाच. देशाराधकत्वमेव तथैव परिभाषणात्, चारित्रमोहनीयक्षयोपशमविशेषागावतोऽधिगतश्रुतज्ञानानां शीलवतां द्रव्यतोऽल्पश्रुतानामपि माषतुषादीनां त्वेवं साराधकत्वमेव परिशिष्यते इति द्रष्टव्यम् // 27 // विवेचितः प्रथमो भङ्गः, अथ द्वितीयं भङ्गं विवेचयनाह-- देसस्स भंगओ वा अलाहओ वा विराहगो बीओ। संविग्गपक्खिओ वा सम्मट्ठिी अविरओ वा // 28 // देसस्सन्ति / देशस्य मोक्षमार्गतृतीयांशभूतस्य चारित्रस्य गृहीतस्य भङ्गादलाभाद्वा देशस्य विराधको ज्ञेयः। स च देशभङ्गापेक्षया संविग्नपाक्षिको देशाप्राप्त्यपेक्षया चाविरतसम्यग्दृष्टिः, तथा च ज्ञानदर्शनवत्त्वे सति चारित्रभङ्गामाप्त्यन्यतरवत्त्वं देशविराधकत्वमिति परिभाषितं भवति // इत्थं च जिनोक्तानुष्टानमधिकृत्यैव कृतप्रतिज्ञा देशस्य भङ्गतो वा आराधको वा विराधको द्वितीयः। संविग्नपाक्षिको वा सम्यग्दृष्टिरविस्तो वा // 28 // For Private and Personal Use Only