________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सागरोप्रमकोटीना कोव्यो मोहस्य सप्ततिः कर्मग्रन्थप्रसिद्धा अभिन्नग्रन्थेजीपस्योत्कर्षतो बन्यो 'यद्' यसाकारणात् “न तु' न पुनरेकाऽपि सागरोपमकोदीबन्धः, ' इतरस्य तु' भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि सतः॥ अथोपसंहरन्नाह तदत्र परिणामस्य भेदकत्वं नियोगतः। बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि / / यतो ग्रन्थिमतिक्रम्यास्य न बन्धस्तत् तस्माद् 'अत्र' अनयोभिन्नग्रन्थीतरबीक्योर्विषये 'परिणामस्य ' अन्तःकरणस्य भेदकत्वं भेदकभावो 'नियोगत' नियोगेन, “बाह्यं तु' बहिर्भवं पुनरसदनुष्ठानमर्थोपार्जनादि 'प्रायो' बाहुल्येन 'तुल्यं' समं द्वयोरप्यनयोरिति” सैद्धान्तिकमतमेतद्। येपि कार्मग्रन्थि का भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थिविबन्धमिच्छन्ति, तेषामपिमतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वेन विप्रतिपत्तिः। यद्यपि अल्पबन्धेऽपि भिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राषल्येऽनन्तसंसारित्वं संभवति, तथाऽपि मन्दीभूतं लोकोत्तरमिथ्यात्वं संनिहितमार्गावतरणबीजं स्यादिति विशेषः। न चैवं 'लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं '-इत्येका"न्तोऽपि ग्राह्यः, लोकोत्तरस्यपि भिन्नग्रन्थीतरसाधारणत्वात्, मुग्धानां परेषां मिथ्यात्ववृद्धिजनकतया लोकोत्तरमिथ्यात्वस्यापि महापापत्वेनोक्तत्वाच / यदागमः " जो जहवायं ण कुणइ मिच्छदिही तओ हु को अण्णो / वड्लेइ मिच्छत्तं परस्स संकं जणेसाणो॥” इति। "सस्मादत्रानेकान्त एव श्रेयानिति // 26 // गीतार्थनिश्रितमपि देशाराधकमाह यो यथा धादं न करोति मिथ्याष्टिस्ततः खलु कोऽन्यः / पईयति मिथ्यात्वं परस्य शां जनरन् / For Private and Personal Use Only