________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोइअमिच्छत्ताओत्ति / 'लौकिकमिथ्यात्वाल्लोकोत्तरिक तत् मिथ्यात्वं महापापम् ' इत्येकान्तो न.युक्तः, यत्परिणामा बहुविकल्पा नानाभेदाः संभवन्ति / तथा च यथा लौकिकं मिथ्यात्वं तीव्रमन्दादिभेदान्नानाविधं तथा लोकोत्तरमपीति न विशेषः, प्रत्युत ग्रन्थिभेदानन्तरमल्पयन्धापेक्षया लोकोत्तरमेवाल्पपापमिति / तदुक्तं योगविन्दुसूत्रवृत्त्योः " भिन्नग्रन्थेस्तृतीय तु सम्यग्दृष्टरतों हि न / पतितस्याप्यतो बोधो ग्रन्थिमुल्लङ्घय देशितः / / "भिन्नग्रन्थेस्तृतीयं तु' अनिवृत्तिकरणं पुनर्भवति / एवं सति यसिद्धं सदाह-सम्यग्दृष्टेजीवस्य अतो हि' अत एव करणत्रयलाभादेव हेतोः 'न' नैव ' पतितस्य' तथाविधसंलशात्परिभ्रष्टख अतो लभ्यते बन्धो ज्ञानावरणादिपुद्गलग्रहरूपः, कीदृशः ? इत्याह-' ग्रन्थि' ग्रन्थिभेदकालमाविनी कर्मस्थितिमित्यर्थः, " उल्लङ्मय' अतिक्रम्य 'देशितः' सप्ततिकोट्यादिप्रमाणतया प्रज्ञप्तः, " बंधण ण चोलइ कयाइ” इत्यादिवचननामाण्यात् // " " एवं सामान्यतो ज्ञेयः परिणामोऽस्य. शोभनः / मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः // ' एवं ' ग्रन्थेरुल्लङ्घनेन बन्धाभावात् / सामान्यतः' न विशेषेण ज्ञेयः परिणामोऽस्य-सम्यग्दृशः ' शोभन:' प्रशस्तो मिथ्यरष्टेररि 'सतः' तथाविधःमिथ्यात्वमोहोदयात् , कुतः? इत्याह- महाबन्धविशेषतः' इह द्विषा बन्धः, महाबन्ध इतरबन्धक्ष / तत्र मिथ्यादृष्टेमहायन्ध', शेषश्चेतरस्य / ततो महाबन्धस्य विशेषतोऽवस्थान्तरविशेषात् / इदमुक्तं भवति-लव्धसम्यक्त्वस्य प्राणिनो मिलाहष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिख बन्धः, किन्तु कश्चिद त्यन्तन्युनः / / " सद्विशेष एवं कुलः? इत्याह " सागरोपनकोटीमां कोट्यो मोहस्य सप्ततिः / अभिन्नग्रन्थिबन्यो न त्वेकापीतरस्य तु // 1 बन्धेन नातिकामति कदाचिद् / For Private and Personal Use Only