________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 04 न्यपि वचनानि व्याख्यातानि, विशिष्टफलाभावापेक्षयाऽपि निरर्थकत्ववचनदर्शनात् / पठ्यते च " नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहणं / संजमहीणं च तवं जो चरइ णिरत्थयं तस्स // " इत्यादि / अथ पोषमासे वटवृक्षाम्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यथा स्वरूपयोग्यता-सहकारियोग्यताऽभावेन विशेषस्तथा मिथ्यादृक्कृत्यचारित्रहीनज्ञानादिनिरर्थकतावचन योरपिस्फुट एव विशेष इतिचेत्, तर्हि अयमपरोऽपि विशेषः परिभाव्यताम् / सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दिमिथ्यादृक् कृत्यं वटवृक्षवदयोग्यम् , अपुनर्वन्धकादिकृत्यं तु सहकाराङ्करवत्पारम्पर्येण योग्यमिति सर्वमिदं निपुर्ण निभालनीयमम् // 24 // 'तदेवं श्रुतवांश्च बालतपस्वी देशाराधकः' इति वृत्तिगतः प्रथमपक्षः समर्थितः, अथ तद्गतं द्वितीयं पक्षं समर्थयातेपक्खंतरम्मि भणिओगीयत्थाणिस्सिओ अगीओसो। जो णभिणिविट्टचित्तो भीरू एगंतसुत्तई // 25 // पक्खंतरम्मित्ति / पक्षान्तरे-अन्येषामाचार्याणां व्याख्याने गीतानिश्रितोऽगीतार्थः स देशाराघको भणितः, योऽनभिनिविष्टचित्तःआत्मोत्कर्ष-परद्रोह-गुरु-गच्छादिप्रद्वेषमूलासद्ग्रहाकलङ्कितचित्तः, भीरुः-कुतोऽपि हेतोरेकाकिभावमाश्रयन्नपि स्वेच्छानुसारेण प्रवर्तमानोऽपि स्वारसिक जिनाज्ञाभयः, एकान्तसूत्ररुचिः-अव्याकृतसूत्रमात्रानुसारी। पक्षान्तरे भणितो गीतार्थानिश्रितोऽगीतः सः। योऽनभिनिविष्टचित्तो भीरुरेकान्तसूत्ररुचिः // 25 // शानं चारित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम / संयमहीनं च तपो यश्चरति निरर्थकं तस्य // . For Private and Personal Use Only