________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहीतार्थजलादाशिकक्षयोपशममेधात्मवृद्धिसंभवात्। एवं नीतुल्यानां परप्रवादानां जैनागमसमुद्रमूलत्वे लोकनीत्यापि बाधकाभावात् / अत एव न समुद्रस्य नदीरितृत्वापत्तिदोषोऽपि, लोकनीत्याऽपि तदनुपपत्तेः / यदि चोपमानयललभ्यधर्मेण तत्सहचरितानभिमतधर्मापत्ति: स्यात् , तदा चन्द्रोपमया मुखादी कलङ्कितत्वाद्यापत्तिरपि स्यादिति / न नैवं मेघात्प्राग्नदीनामिव जैनागमानुसारिक्षयोपशमात्प्राक् परवादा नामनुपचितावस्थत्वप्रसङ्गः, इष्टत्वात् , जैनागमानुसारिनयपरिज्ञान विनाऽनुपनिबद्धमिथ्यात्वरूपतयैव तेषां स्थितत्वात् / न चैवं जिनदेशनाया उपचितमिथ्यात्वमूलत्वेनानर्थमूलत्वापत्तिः, विश्वहितार्थिपत्र त्तावनुषङ्गतस्तदुपस्थितावपि दोषाभावाद् भावस्यैव प्राधान्यात् / तदुक्तमष्टके " इथं चैतदिहेष्टव्यमन्यथा देशनाऽप्यलम् / कुधर्मादिनिमित्तत्वाद्दोपायैव प्रसज्यते // " इति पराभिप्रायेण प्रकृतस्तुतिवृत्तव्याख्याने च त्वत्तः समुदी:-. इति वाच्ये ' त्वयि समुदीर्णाः' इति पाठस्य क्लिष्टत्वापत्तिः। किंच' एवं परेषां भगवदभिहितार्थश्रद्धानं भगवतश्च तल्लेशस्याप्यश्रद्धान एतावता भगवत्यतिशयालाभः। सांप्रदायिक त्वर्थे 'भगवत्यन्यदृष्ट. समयतरन्ति, भवांश्च न तासु' इत्येवं खेतरसकलदर्शनार्थव्याप्या प्रवचनवक्तृत्वरूपातिशयालाभ इत्युपमया व्यतिरेकालंकाराक्षेपात दुष्टार्थकत्वं काव्यस्य स्यात् / किं च-एवमपि परेषां जिनाभिहिता श्रद्वानाभ्युपगमे सत्प्रशंसारूपबीजलाभाभ्युपगमप्रसङ्गः। न च ते क्वचिद् यथार्थजिनोक्तश्रद्धानेऽपि तत्मणेतर्यहति देवत्वेन भावार.. वाद् / देवो रागद्वेषरहितः सर्वज्ञ एव भवति नापरः, स चास्मदनि मतः सुगतादिरेवेति शाक्यादीनाम् , देवोहन्नेव, परमस्मन्मार्गप्रणेनत्यादि च मिथ्यात्वबीजं दिगम्बरादीनामस्त्येवेति न तेषु धर्मसंभा, इति वाच्यम् / तथापि तादृशपक्षपातरहितानां यः कश्चिद् रागा रहितो विशिष्टपुरुषः स देवः' इत्यादिसंमुग्धश्रद्धानवतां भगवदहितकतिपयसुन्दरार्थग्राहिणां धर्मबीजसद्भावस्य प्रतिहन्तुमशवय. For Private and Personal Use Only