SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पितृत्वापत्त्या 'नदीपतिः समुद्रः' इति कविसमयव्यातिप्रसस्तः, समुद्रस्य गाम्भीर्यहानिप्रसक्तेश्च / तस्मात्स्तुतिकर्तुरभिप्रायोऽयम्हे नाथ ! ' त्वयि' सर्वज्ञे दृष्टयोऽन्यतीथिकानां निज निजमार्गश्रद्धानलक्षणाः 'समुदीर्णाः ' सम्यगुदयं प्राप्ताः तद्विषयो भगवान् जात इत्यर्थः / अयं भावः-यत्किंचिदकरणनियमादिकं जिनेन सुन्दरतया भणितम् , तदन्यतीर्थिकैरपि तथैव प्रतिपन्नम् / एतच्च साम्प्रतं नालि. परादिफलाहारेणैकादशीपर्वोपनासं कुर्वाणा जैताभिमतोप्रवासं सम्य..नया मन्यन्ते, जैनाश्च तदुपवासं लेशतोऽपि न मन्यन्ते / अत एय चन च तासु भवान् प्रदृश्यते' इति / तासु-अन्यतीर्थिकदृष्टिषु ' भवान् न प्रदृश्यते' अन्यतीर्थिक श्रद्धानविषयीभूतं धार्मिकानुष्ठानं गलस्नानादिकं भवान् लेशतोऽपि न मन्यते इत्यर्थः / अन्यतीथिकानां दृष्टयो भगवति वर्तन्ते / तत्र दृष्टान्तमाह-यथोदधौ सर्वाः सिन्धवः सनुदीर्णा भवन्ति-सम्यगुदयं प्रास्ताः स्युः, लोकेऽपि भर्तृसंबन्धेन स्त्रिय उदिता भवन्तीति प्रसिद्धः / तासु भवान्नास्ति' इत्यत्र दृष्टान्तमाह-यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो नास्ति / तासु च समुद्रो नावतरतीत्यर्थः / अनेनाभिप्रायेण स्तुतिः, न पुनरर्हदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशाद्न्यतीर्थिकदृष्टयः समुत्पन्ना इत्यभिप्रायेणेति॥ तदसत्, प्राचीनाचार्यव्याख्यामुल्लङ्घ्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात् / तदाहुः श्रीहेमचन्द्रसूरयः " यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारिशिष्यैः / न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः // " इति / न चेदमुपदेशपदवृत्तिकृत एव दृषणदानम् , किन्तु " एक एव मार्गोऽपि तेषां शमपरायणः।” इत्यादिवदतां श्रीहरिभद्रसूरीणां 'ससाख्यातम्' इति पदुसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां चेत्यतिदुरन्तोऽयं कोऽपि मोहमहिमा / यावानुपपत्तिरुद्भावित्रा' यदि द्वादशाङ्गं रत्नाकरतुल्यम्' इत्यादिना साऽनुपपन्ना, समुद्राजलं गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा भवतीति प्रसिद्धेः, परप्रवादानामपि नदीतुल्यानां जैनागमस्य समुद्र For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy