________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने
[चारदेवः] वासुदेवो (१)गदां शङ्ख चक्रपद्मधरो मतः ।
[ केशवः] केशवः कमलं कम्बु धत्ते चक्रं गदामपि ॥ ९॥
[भारायणः] नारायणः कम्बु(२)पत्रगदाचक्रधरो भवेत् ।
[माधवः] माधवस्तु गदां चक्रं शङ्ख वहति पङ्कजम् ॥ १० ॥
[पुरुषोत्तमः ] पुरुषोत्तमस्तु चक्रं पद्मं शङ्ख गदां दधत् ।
[अधोक्षजः] अधोक्षजः सरसिजं गदां शङ्ख सुदर्शनम् ॥ ११ ॥
[सङ्कर्षणः] सङ्कर्षणो (३) गदां कम्बुसरसीरुहचक्रभृत् ।
[गोविन्दः] गोविन्दो धरते चक्र गदां पद्मं च कम्बुना ॥ १२ ॥
[विष्णुः ] विष्णुः कौमोदकी पद्मं पाञ्चजन्यं सुदर्शनम् ।
[मधुसूदनः] मधुसूदनस्तु चक्रं शङ्ख सरसिजं गदाम् ॥ १३ ॥
[अच्युतः] अच्युतस्तु गदापद्मचक्रशङ्खः समन्वितः ।
[उपेन्द्रः] उपेन्द्रो वहते शङ्ख गदां चक्रं कुशेशयम् ॥ १४ ॥
(१) 'गदा-शङ्ख-चक्र-पद्म' इति स्यात् । (२) 'पद्म' इति स्यात् । (३) 'गदाकम्बु.' इति स्यात् ।
For Private And Personal Use Only