________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः
[ युगभेदेन वर्णभेदेन च विष्णुमूर्तयः ] वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । श्वेतरक्तपीतकृष्णा(:) क्रमात् (१)कलयुगादिषु ॥ १ ॥ पूज्या द्विजादिभिश्च
[शिरोविधानम् ]
-एषां छत्राभं कुक्कुटाण्डवत् । वपुषाभञ्च बालेन्दुरूपं कुर्याच्छिरः क्रमात् ॥ २ ॥
[वर्णभेदेन विष्णुमूर्तीनां शुभदत्वम् ] नारायणः केशवश्च माधवो मधुसूदनः । पूजिता मूर्तयो ह्येता विप्राणां सौख्यदायकाः ॥ ३ ॥ मधुसूदनविष्णू च क्षत्रियाणां फलमदौ । त्रिविक्रमो वामनश्च वैश्यानाम् (२)अर्चयेच्छुभा ॥ ४ ।। पूजिता (३)श्रीधरी मूर्तिः शूद्राणां सौख्यदायिनी । चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ५॥ मेदभिल्लकिरातानां हृषीकेशः सुखप्रदः । कुम्भकारबणिग्वेश्या(४)चक्रिकाध्वजिनामपि ॥ ६ ॥ सर्वेषां प्रकृतीनाञ्च पद्मनाभः सुखावहः । दामोदरः सौख्यदः स्याद् (५) ब्रह्मचर्यैकदण्डिनोः ॥ ७ ॥ (६)हरिहरो हिरण्यगर्भो नारसिंहोऽथ वामनः । वराहः सर्ववर्णेषु सौख्यदो हितकारकः ॥ ८॥
(१) 'कलि' इति स्यात् । (२) 'अर्चने शुभौ' इति स्यात् । (३) 'त्रैधरी' इति स्यात् । (४) ' चक्रिक-' इति स्यात् । (५) 'ब्रह्मचार्येक-' इति स्यात् । (६) 'हरिहिरण्यगर्भश्च' इति स्यात् ।
For Private And Personal Use Only