________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः
[ प्रद्युम्नः] प्रद्युम्नश्च (१)चक्रशङ्ख गदाम्भोजानि पाणिभिः ।
[त्रिविक्रमः] त्रिविक्रमस्त्रिषु गदाचक्रशङ्खान् बिभर्ति यः ॥ १५ ॥
[ नरसिंहः ] नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः ।
[जनार्दनः ] जनार्दनोऽम्बुजं चक्रं कम्बु कौमोदकी दधौ ॥ १६ ॥
- [वामनः] वामनस्तु शङ्खचक्रगदापालसत्करः ।
[श्रीधरः] श्रीधरो वारिजं चक्रं गदाशङ्ख दधाति च ॥ १७ ॥
[अनिरुद्धः] अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् ।
[हृषीकेशः] हृषीकेशो गदां चक्रं पद्मशङ्ख च धारयन् ॥ १८ ॥
[पद्मनाभः] पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि ।
[दामोदरः] दामोदरोऽम्बुजं शङ्ख गदां धत्ते सुदर्शनम् ॥ १९ ॥
[हरिः] हरिर्धारयते कम्बु चक्र पद्मं तथा गदाम् ।
[कृष्णः ] कृष्णः करैः पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥ २० ॥ एताः सुमूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् । (वासुदेवादिवर्णाः स्युः षडेते तददादयः?) ॥ २१ ॥
(१) 'चक्रशङ्खगदाम्भोजानि' इति स्यात् ।
For Private And Personal Use Only