SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयोऽध्यायः [ जीर्णोद्धारे विशेषः] अङ्गप्रत्यङ्गभग्नां तु मूर्ति धीमान् विसर्जयेत् । नखाभरणमालास्त्रभमां तां न विवर्जयेत् ॥ १॥ [एकत्र देवपूजानिषेधः] गृहे लिङ्गद्वयं नाय॑ गणेशत्रयमेव च । शक्तित्रयं तथा शङ्ख (१)मच्छादिदशकाङ्कितम् ॥ २ ॥ द्वे चक्रे द्वारकायास्तु शालिग्रामद्वयं तथा । द्वौ शङ्खौ नार्चयेत् तद्वत् सूर्ययुग्मं तथैव च ॥ ६ ॥ तेषां तु पूजनान्नूनमुद्वेगं प्राप्नुयाद् गृही। [तुलस्या पूजानिषेधः] तुलस्या नार्चयेच्चण्डी (२)दीपं सूर्यं गणेश्वरम् ॥ ४ ॥ ब्रह्मादीनाञ्च देवानां देवीनाञ्च यथाक्रमम् । आयुधानि तथा वर्णं वाहनं कथयाम्यथ ॥ ५॥ ऋग्वेदादिप्रभेदेन कृतादियुगभेदतः । विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ ६ ॥ दक्षिणाधःकरात् सृष्टया जयमालां तथा (३)श्रुतम् । पुस्तं कमण्डलुं धत्ते सकूर्चः कमलासनः ॥ ७ ॥ इति कमलासनः। अक्षसूत्रं पुस्तकञ्च धत्ते चैव कमण्डलुम् । चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे हिता ॥ ८॥ [इति सावित्री] (१) 'मत्स्यादीति स्यात् । (२) 'नैव' इति स्यात् । (३) 'श्रुचम्' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy