SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयोऽध्यायः जटिला(:) श्मश्रुलाः शान्ता आसीना ध्यानतत्पराः । कमण्डल्वक्षसूत्राभ्यां संयुता ऋषयः स्मृताः ॥९॥ [इति ऋषयः] विश्वकर्मा चतुर्बाहुरक्षमालाञ्च पुस्तकम् । (१)कम्बां कमण्डलु धत्ते त्रिनेत्रो हंसवाहनः ॥ १० ॥ [इति विश्वकर्मा ] आग्नेय्यां तु गणेशः स्यान्मातृस्थानं च दक्षिणे । नैर्ऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ ११॥ वायव्ये पार्वतीरुद्रौ ग्रहांश्चैवोत्तरे न्यसेत् । ईशाने कमला देवी प्राच्यां तु धरणीधरः ॥ १२ ॥ __ इति ब्रह्मायतनम् । ब्रह्मणोऽष्टौ प्रतीहारान् कथयिष्याम्यनुक्रमात् । पुरुषाकारगम्भीराः सकूर्चा मुकुटोज्ज्वलाः ॥ १३ ॥ पद्मं (२)सक् पुस्तकं (३)दण्डः सत्यो वामेऽथ दक्षिणे । सव्यापसव्य(४)करके (५)पद्मदण्डश्च धर्मकः ॥ १४ ॥ (६)अक्षपद्माङ्गकोदण्डः करे धत्ते प्रियोद्भवः । दण्डागम(७)सृक्फलकैर्यज्ञः स्यात् सर्वकामदः ॥ १५ ॥ अक्षसूत्रगदाखेटदण्डैर्विजयनामकः । अधोहस्तापसव्येन (८)युवेटब्दे यज्ञभद्रकः ॥ १६ ॥ (९)अक्षो पाशाङ्कुशौ (१०)दण्डौ (११)भव्य(:) स्यात् सार्वकामिकः । दण्डाक्षांकुशपद्मश्च विभवः सर्वशान्तिदः ॥ १७ ॥ (१२)इति ब्रह्ममूर्तिः आयतनं प्रतीहाराः । (१) 'कम्बु' इति स्यात् । (२) 'झुक्' इति स्यात् । (३) 'दण्डम्' इति स्यात् । (४) 'करयोः' इति स्यात् । (५) 'पद्मदण्डञ्च' इति स्यात् । (६) 'अक्षपद्माङ्कशान् दण्डम्' इति स्यात् । (७) 'क्' इति स्यात् । (८) 'खेटधृग्' इति स्यात् । (९) 'अक्षं' इति स्यात् । (१०) 'दण्डं' इति स्यात् । (११) 'भवः' इति स्यात् । (१२) 'ब्रह्ममूर्तेरायतनप्रतीहाराः' इति स्यात् । रूप -२ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy