________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः मुखस्यापि त्रिभागेण ललाटं नासिका हनुः । विस्तरे स्तनगर्भे तु द्वादशाङ्गुलमीरितम् ॥ ३३ ॥ तद्बाले वेदवेदांशे कक्षे एकान्तरे ततः । सप्तसप्ताङ्गुलौ बाहू दैये च षोडशाङ्गुलः (१) ॥ ३४ ॥ करोऽष्टादशमात्रः स्याद्(२)विस्तारो रेणुनाङ्गुलः । दैये सूर्याङ्गुलः पाणिर्विस्तारे पञ्चमात्रकः ॥ ३५ ॥ मध्यं मन्वङ्गुलं व्यासे कटी प्रोक्ता जिनाङ्गुला । मूल एकादशोरु स्याज्जङ्घा प्रान्ते युगाङ्गुला ॥ ३६ ॥ चतुर्दशाङ्गुलः पाद(३)स्ततोद्धे च युगाङ्गुलाः । कक्षस्कन्धस्तदूर्द्ध तु कर्तव्यश्चाष्ट(४)मातृकाः ॥ ३७॥ ग्रीवा त्वष्टाङ्गुला व्यासे पादः प्रोक्तः षडङ्गुलः । षट्सप्ताष्ट(५)नवांशान्तामुद्देशाश्च प्रदर्शिताः ॥ ३८ ॥ ज्ञेयो मानविभा(६)गश्च विस्तरः पूर्वशास्त्रतः ॥ ३९ ॥
इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे प्रतिमाद्रव्यगुणदोष
तालाधिकारः प्रथमोऽध्यायः ॥१॥
(१) 'गुलौ' इति स्यात् । (२) 'विस्तारोऽग्रे गुणाङ्गुलः' इति स्यात् । (३) 'स्तदूर्वे च युगाङ्गुलः' इति स्यात् । (४) ' मात्रकः' इति स्यात् । (५) 'नवांशाना' इति स्यात्। (६) 'गस्य' इति स्यात् ।
For Private And Personal Use Only