SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रूपमण्डने [ तालानुसारेणाङ्गविधानम् ] [ तत्र षट्तालस्य ] मुखं तालद्वयं तस्य जठरं तत्समं भवेत् । गुह्यं वेदाङ्गुलम् ऊरू सप्त जङ्घा च तत्समा ॥ २४ ॥ गुणाङ्गुलं भवेज्जानु पादः कार्यों गुणाङ्गुलः । रसतालमिति प्रोक्तं सप्ततालमथोच्यते ॥ २५ ॥ [ सप्ततालस्य ] वक्त्रं तालप्रमाणं स्यात् कन्धरावंगुलत्रयम् । सार्द्धसप्ताङ्गुलं वक्षो मध्यं नवभिरङ्गुलैः ॥ २६ ॥ सार्धसप्त नाभि(१)मध्ये (२) ऊरूरष्टदशाङ्गुले । पादोत्सेध त्रिमात्रञ्च मनुजाः सप्ततालके ॥ २७ ॥ [ अष्टतालस्य ] Acharya Shri Kailassagarsuri Gyanmandir अष्टताले मुखं कुर्यात् तालं द्वादशमात्रकम् । श्रीवास्य त्रयङ्गुला कार्या हृदयं तु नवाङ्गुलम् ॥ २८ ॥ मध्यं द्वादशमात्रं च नाभिमे नवाङ्गुले | (३) ऊरू स्यादेकविंशत्या जानु चैव गुणाङ्गुलम् ॥ २९ ॥ जङ्घा तथैकविंशत्या पादमूलं गुणाङ्गुलम् । [ नवतालस्य ] प्रतिमामुखमानेन नव भागान् प्रकल्पयेत् ॥ ३० ॥ वेदाङ्गुला भवेद् ग्रीवा भागेन हृदयं त्वधः । नाभिर्भागेन मेढ़े च भागमेकं प्रकल्पयेत् ॥ ३१ ॥ चतुर्विंशतिमात्रोरुर्जानु प्रोक्तं युगाङ्गुलम् । द्विभागेन समा जङ्घा पादस्तु चतुरङ्गुलः ॥ ३२ ॥ (१) '-मेढूं' इति स्यात् । (२) 'ऊरू अष्टादशाङ्गुलौ' इति स्यात् । (३) 'ऊरु: ' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy