________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः प्रतिमाकाष्ठ(१)लेपानुमदन्तचित्रायसां गृहे । मानाधिका परीवाररहिता नैव पूज्यते ॥ १५ ॥
[अर्चा!कृतकथनम् ] नर्त्तनं रोदनं हास्यमुन्मीलननिमीलने । देवा यत्र प्रकुर्वन्ति तत्र विद्यान्महाभयम् ॥ १६ ॥ वत्सेनाभिमुखे कुर्याद् यात्रां द्वारञ्च वास्तुनः । प्रवेश(ः) प्रतिमादीनां गुर्विणीनां विशेषतः ॥ १७ ॥
[प्रतिमाशिरोज्ञानम् ] प्राक् पश्चादक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥ १८ ॥
[सालमानेन मूर्तयः ] ग्रासवक्तूमेकभागे द्वौ पक्षी कुञ्जरास्त्रयः । किन्नराश्वाश्चतुस्तालाः (२)पञ्चाशितसुरा वृषः ॥ १९ ॥ शुकरो वामनश्चापि षट्तालो गणनायकः । सप्तभागाः प्रकर्तव्या वृषशूकरमानकाः ॥ २० ॥ अष्टांशा पार्वती देवी सर्वे देवा नवांशकाः । दशतालो भवेद्रामो बलिलो जिनस्तथा ॥ २१॥ ताला एकादश स्कन्दो हनुमान् भूतचण्डिका । ताला द्वादश वेताला राक्षसाश्च त्रयोदश ॥ २२ ॥ दैत्याश्चतुर्दशांशाः स्यु गु(३)रूपा ततोऽधिका । (४)कालांशाः क्रूरदेवाः स्युरत ऊर्दू न कारयेत् ॥ २३ ॥
(१) लेपाश्मदण्डचित्रायसा ग्रहे' इति स्यात् । (२) पञ्चासितसुरा' इति स्यात् । (३) 'रूपं ततोऽधिकम्' इति स्यात् । (४) 'कलांशाः' इति स्यात् ।
For Private And Personal Use Only