________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
देवतामूर्तिप्रकरणम् वराक्षपद्मपुस्तकं शुभावहा च भारती।
[इति भारती-३] वराम्बुजाक्षपुस्तकं सरस्वती प्रकीर्त्तिता ॥८१॥
[इति सरस्वती-४] वराक्षं पुस्तकं पद्मम् आर्या नाम प्रकीर्तिता।
[इत्यार्या-५] वरपुस्तकाक्षपद्मं ब्राह्मी नाम सुखावहा ॥२॥
[इति ब्राह्मी-६] वरपद्मवीणापुस्तकं महाधेनुश्च नामतः।
[इति महाधेनुः-७] वरञ्च पुस्तकं वीणा वेदगर्भा तथाऽम्बुजम् ॥८३॥
[इति वेदगर्भा-८] अक्षं तथाऽभयं पद्मं पुस्तकेनेश्वरी भवेत्।।
[इतीश्वरी-९] (असपतं ? अक्ष पद्म) पुस्तकञ्च महालक्ष्मीस्तथोत्पलम् ॥४॥
- [इति महालक्ष्मीः -१०] अक्षं पद्मं पुस्तकं च महाकाल्यभयं तथा।
[इति महाकाली-११] अक्षपुस्तकमभयं पद्मं महासरस्वती॥८५ ॥
[इति महासरस्वती-१२]
इति द्वादश सरस्वत्यः । अष्टादश(जया ? भुजा) कार्या भद्रकाली मनोहरा। (अ ? आ)लीढस्थानसंस्था तु कर्त्तव्या सौख्यदायका ॥८६॥ अक्षमाला त्रिशूलञ्च खड्गश्चक्रं करेषु च। वामे तु चापं कर्त्तव्यं शङ्खपद्मौ तथैव च ॥८७॥
८६। आलीटेति । दक्षिणं पादमग्रतः कृत्वा वामपादाकुञ्चनमालीढस्थानम्, तेन सन्तिष्ठत इति आलीढस्थानसंस्था ।
For Private And Personal Use Only