________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमोऽध्यायः
चण्डिका श्वेतवर्णास्या (त्रावा ? च्छवा ) रूढा च षड्भुजा । जटिला च लसल्यक्षा वरदा शूलधारिणी ॥ ७४ ॥ कर्त्तिकां बिभ्रती दते पाशपात्राभयान्यतः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ इति चण्डिका ] इत्ये (हं ? ता ) मातरः प्रोक्ता रूपभेदव्यवस्थया ॥ ७५ ॥ भैरवं कारयेत्तव नृत्यमानं विकारणम् । गणेशमादौ कर्त्तव्यमन्ते कुर्याच्च भैरवम् ॥ ७६ ॥ मातृणां मध्यतः कार्याः पंक्ति (शो ? शः ) चण्डिकादयः । वीरेश्वर (स्य ? श्च ) भगवान् वृषारूढो धनुर्धरः ॥ ७७ ॥ ( वीणाहस्त ? वीणां हस्ते ) त्रिशूलञ्च वाणं चैत्र प्रकारयेत् । वीरेश्वरस्य रूपं तु मातृणामग्रतो भवेत् ॥ ७८ ॥
इति मातरः ।
[ अथ द्वादश सरस्वत्यः ]
एकवक्ता (:) चतुर्भुजा मुकुटेन विराजिता (९) । प्रभामण्डलसंयुक्ता (:) कुण्डलान्वितशेखरा ( : ) ॥ ७६ ॥
इति ।
ऽपकृतम्,
[ इति सरस्वतीनां साधारणलक्षणम् ]
अक्षपद्मं वीणापुस्तकं महाविद्या प्रकीर्त्तिता ।
[ इति महाविद्या - १ ] अक्षं पुस्तकं वीणा पद्मं महावाणी च नामतः ॥ ८० ॥ [ इति महावाणी - २ ]
१५६
७६ | प्रसङ्गान्मात्रायतने कर्तव्यानामन्येषां नामान्याह - भैरवमिति । गणेशमादाविति । अत्र आद्यन्तादिपदानि किंसम्बन्धीनीति न विद्मः । ' मध्ये च मातृकाः कार्या अन्ते तेषां विनायकः' ( अ० १, श्लो० ७४ ) इति रूपमण्डने सन्निवेशस्य वैपरीत्यं दृश्यते । कतर देतयोर्युक्ततरमिति शिल्पिन एव निर्धारयन्तु ।
७९-८० । इदानीं द्वादश सरस्वतीर्लक्षयन् प्रथममासां साधारणं लक्षणमाह-एकवक्ता एताः सरस्वत्यो नेतरत्र लभ्यन्ते । यत्र यत्र पुस्तकमिति व्यक्षरेण नाम्ना छन्दसोतत्र तत्र पुस्तमिति पाठेऽपि न क्षतिः ।
For Private And Personal Use Only