________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः श्रुव(सृचौ ? उचौ) च कर्त्तव्यौ तथा वेदिकमण्डलुः। दण्डशक्तिश्च कर्त्त(व्यं ? व्या) कृष्णाजिनहुताशनौ ॥८॥ (अ ? ह)स्तानां भद्रकाल्यास्तु भवेत् (कौतस्तु ?) शोभनः। एकश्चैव महाभाग रत्नपात्रधरो भवेत् ॥८६॥
इति भद्रकाली। निगद्यते ह्यथो चण्डी हेमभासा सुरूपिणी। त्रिनेत्रा यौवनस्था च पीतपीनपयोधरा ॥ १० ॥ एकवक्ता तु सुग्रीवा बाहु(वं ? विंशतिसंयुता। शूलासिक्तिचक्राणि गदाशलपवीन(पी ? पि) ॥११॥ ऊर्द्धादिक्रमयोगेण बिभ्रती सासवा शुभा। शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् ॥ १२ ॥ शूलभिन्नो वमद्रक्तो रक्त(भूप)मूर्द्धजेक्षणः । सिंहेन खाद्यमानश्च पाशाबद्धो गले भृशम् ॥ १३ ॥ यात्यहो क्रान्तसिंहा च सव्यं द्योलीढगासुराः (१) । चण्डी चोद्यतशस्त्रा च महिषासुरघातिनी ॥ १४ ॥
इति चण्डी।
९१। इह बाहुविंशतिपर्याप्तानामायुधानामुल्लेखो नास्ति । यद्यपि 'जादिक्रमयोगेण' इति परत उक्तमा निर्दिष्टान्येवाऽऽयुधानि वामे दक्षिणे चेत्यायाति आदिपदसामर्थ्यात्, तथापि न साकल्यतो विंशतिर्भवन्त्यायुधानि, मूले अष्टानामेवाऽऽयुधानां निर्देशात् । आग्नेये तु
'शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम् । डमरु शक्तिका वाम गपाशञ्च खेटकम् ॥ कुठाराङ्कशचापांश्च घण्टाध्वजगदास्तथा ।
आदर्शमुदगरान् हस्तैः ....... ॥ (अ० ५०, श्लो० १.३) इति विंशतिरेवाऽऽयुधानि प्रतिपादितानि । ९४ । 'याम्याङ्घयाक्रान्तसिंहा च सव्याधिर्नीचगासरे' इत्याग्नेये (अ० ५०, इलो०५)।
देवता-२१
For Private And Personal Use Only