SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् तर्जनीदण्डापसव्ये बलवान्तकदक्षिणे। तर्जनीबाणचापञ्च दण्डश्च गजकर्णकः ॥ ३२ ॥ तर्जनीदण्डापसव्ये गोकर्णाकृतिपश्चिमे। तर्जनीपनाङ्कुशं च दण्डहस्तः सुसौम्यकः॥३३॥ तर्जनीदण्डापसव्ये स चैव शुभदायकः । ( याद )नद्वारादि(क )सर्वेषु अष्टौ चैव शुभावहाः ॥३४॥ तर्जनीदण्डापसव्ये बलवान्तकदक्षिणे। तर्जनीबाणचापश्च दण्डश्च गजकर्णकः ३५ ॥ इति गणेशप्रतीहाराः कार्तिकेयं प्रवक्ष्यामि तरुणादित्य( संस ) प्रभम् । कमण्डलोदवर्णाभं कुमारं सुकुमारकम् ॥ ३६॥ गण्डकैश्चि(रकै ?कुरै)युक्तं मयूरवरवाहनम् । स्थानी(यं ?ये) खेटनगरे भुजा द्वादश कल्पयेत् ॥ ३७॥ ३५ । द्वात्रिंशश्लोकतुल्यमिदं पद्यं सम्पातायातमिति सम्भाव्यते । ३६ । कात्तिकेयमाह-कात्तिकेयमिति। स्थानभेदेन स्थाप्यमानोऽयं द्वि-चतु-दिश| भुजत्वेन त्रिधा भवति। तत्र स्थानीये खेटनगरे वा द्वादशभुजः, खवटे चतुर्भुजः, ग्रामे वने का द्विभुज इति शिल्परत्नसम्मतं तत्त्वम् । तथाच स्थानीये खेटके वाऽपि कुमारो लिख्यते यदा ॥ भुजा द्वादश कुर्वीत खवटे चतुरो भुजान् । ग्रामे वने द्विबाहुः स्यात् ........"इति । - (शिल्प० उ० अ० २६, श्लो. १२९-१३०) 'कमण्डलोदवर्णाभम्' इत्यत्र 'कमलोदरवर्गाभम्' इति रूपमाडने पाठः (अ० ६, श्लो. २६)। एवञ्च 'तरुणादित्यसप्रभ मि'त्यनेनौउज्वल्यम्, 'कमलोदरवर्णाभमि'त्यनेन च वर्णप्रकर्षः प्राप्यते। ३७। 'स्थानीयं खेटनगरे' इत्यत्र 'स्थानीये खेटके वाऽपि' इति शिल्परत्ने 'स्थापनीयाखेटनगरे(?)' इति रूपमण्डने पाठः। गण्डकैश्चिकुरैर्युक्तमिति गण्डदेशविलम्बिभिः केशैः 'गालपाट्टा' इति प्रसिद्धैः शिखण्डकविशेषैर्युक्तमित्यर्थः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy