SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अष्टमोऽध्यायः उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्ष (राज्यं ? राजः) च बुद्धिः पूर्व व्यवस्थि (तः?ता)॥२६ Acharya Shri Kailassagarsuri Gyanmandir इति गणेशायतनम् सर्वे च वामनाकारा (:) पुरुषानन सौम्य (तः?भाः) । तर्जनी परशु दण्डमविघ्नो दण्डहस्तकः ॥ ३० ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः । तर्जनीखड्गवरदं दण्डहस्तः सुवक्तूकः ॥ ३१ ॥ २९ । इदानीं गणेशायतनदेवानाहइ-उत्तर इति । लेखकप्रमादादत्र कोणदेवताप्रतिपादकमेकं पथं त्रुटितमिति सम्भाव्यते । तच्च वामाङ्गे गजकर्णन्तु सिद्धिं दध्याच्च दक्षिणे । पृष्ठ तथा द्वौ च धूमको बालचन्द्रमाः ॥ इति । एवञ्चैषां यथाक्रममायुधानि च तत्रैवोक्तानि - - १५१ ( रूप० अ० १, श्लो० १९ ) इति रूपमण्डनोक्तवदेव भवेद इति सम्भावयामः । ३० । गणेशप्रतीहारानाह - सर्व इति । रूपमण्डने 'सौम्या पुरुषाननाः' इति द्वितीयपादे सुख सेन्यः पाठः । अष्टौ गणेशप्रतीहारा दक्षादिद्वारतो युग्मशः स्थापनीया इति वर्त्तुलार्थः । तु गौर्याच्या समुन्नेयः । शिल्परत्ने एकैकं वृक्षमाश्रिताभ्यामग्रा दिदिशमलङ्कुर्वतीभ्यां द्वाभ्यां द्वाभ्यां द्वारदेवताभ्यां गणेशायतनमलङ्कृतमिति दृश्यते । तथाच अथ विल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुषौ गिरिजावृषाङ्कौ । पृष्ठ पिप्पजुपरतिपुष्पाणौ सव्ये प्रियङ्गमभिता महीवराहौ ॥ ( उ० अ० २५, श्लो० ४६ ) ध्येयौ च पद्मयुगचकदरैः पुरोक्तौ पाशाङ्कुशाख्यपरशुत्रिशिखैरथाम्यौ । युग्मोत्पलेक्षुमय चापशरैस्तृतीयावन्त्यौ शुकाह्नकलमाग्रगदारथाङ्गैः ॥ For Private And Personal Use Only ( उ० अ० २५, श्लो० ४७ ) इति । परमिदं प्रतीहाराणामायतनदेवतानां वा लक्षणमिति यद्यपि दुरुन्नेयम्, तथाऽप्यायुधदर्शनात् प्रतीहारा एवैते इति निश्चिनुमः नाऽऽयतनदेवताः, आयतनदेवतानां कापि प्रहरणानुपलब्धेः । ३१ । अत्र चतुर्थचरणे ' दण्डहस्तः सुवत्रकः' इति रूपमण्डने (अ० ५१, श्लो० २२) पाठः ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy