________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् पार्श्वः श्रीपार्श्वनाथस्य कर्मारूढो गजाननः । बीजपूरोरगं नागं नकुलं श्यामवर्णभृत् ॥ ६२ ॥
[इति पार्श्वः २३ ] पद्मावती रक्तवर्णा (कुकु?कुक्कु)टस्था चतुर्भुजा। पद्मं पाशाङ्कुशं बीजपूरं हस्तेषु कारयेत् ॥ ६३॥
[इति पनावती २३ ] महावीरस्य मातङ्गः श्यामः स्याद् गजवाहनः। दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ ६४ ॥
[इति मातङ्गः २४] सिद्धायका नीलवर्णा सिंहारूढा चतुर्भुजा। पुस्तकं चाभयं चैव बाणं स्यान्मातुलिङ्गकम् ॥ ६५ ॥
[इति सिद्धायका २४ ] [इति जिनानां यक्षयक्षिणीमूर्तयः ] अथ द्वितीयभेदेन चक्रे (श्वरी ) द्वादशभुजाष्टचक्रे वज्रयोर्द्वयमेव च। मातुलिङ्गाभयं चैव पद्मस्था ग(रलो ? रुडो)परि ॥६६॥ कैलासमोशरणाब्जसिद्धावर्तिसदाशिवम् । सिंहासनं धर्मचक्रमुपरीह छत्रत्रयम् ॥ ६७ ॥
६५। एतेषां जिनानां शासनदेवतानाञ्च मध्ये चत्वारो मुख्या इति रूपमण्डनपर्यालोचनया प्राप्यते। तथा च रूपमण्डने
जिनस्य मूर्तयोऽनन्ताः पूजिताः (सौख्यसर्व ? सर्वसौख्य )दा। चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ श्रीआदिनाथो नेमिश्न ( पर्वे ? पार्यो ) वीर (चतु ? श्चतु)र्थकः । चक्रे (चर्या ? श्वर्य )म्बिका पद्मावती सिद्धायकेति च ॥
इति (अ० ६, श्लो० २५-२६)। ६७। कैलासं सोमशरणं (सिधि ? सिद्धि ) तिसदाशिवम् ।।
सिंहासनं धर्मचक्रपरोन्द्रातपत्रकम् ॥ इति रूपमण्डने (अ० ६, श्लो० २७)।
For Private And Personal Use Only