________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३
सप्तमोऽध्यायः श्रीवत्सश्च तथाऽशोकं वृषा वृश्चिकदुन्दुभिः।
[प्रतीहाराः] इन्द्र इन्द्रजयश्चैव माहेन्द्रो (वी ? वि) जयस्तथा ॥८॥ धरणेन्द्रो पद्मकश्च सुनाभः सुरदुन्दुभिः । इत्यष्टौ च प्रतीहारा (वि ? वी) तरागे तु शान्तिदाः ॥६॥
[प्रतीहाराणां स्वरूपम् ] फलवज्राङ्कशं दण्डमिन्द्रसव्ये (ध्वजाजय स्तथा। द्वौ वज्रौ फलदण्डन्तु माहेन्द्रसव्ये विजयस्तथा ॥७॥ ( यदायुथयोगोद्भवा त्रिपञ्चफणतोऽद्ध गाः)। धरणेन्द्र(:) पद्मकश्च सर्वशान्तिकरौ स्मृतौ ॥७१॥ यक्षरूपाधिका(रं ची राश्च) निधिहस्ताः शुभो(दराः? दयाः)। सुना(भं? भो) दुन्दुभिश्चैव सर्वे शान्तिप्रदायकाः ॥७२॥ इत्यष्टौ च प्रतीहारा जिनेन्द्रस्य च शान्ति(दः ? दाः)। नगरादिपुरग्रामे सर्वविघ्नप्रणाशनाः॥७३॥ मुत्त्यर्थे विश्वमेतद् भ्रमति च बहुधा देवदैत्याः पिशाचा रक्षो गन्धर्वयक्षो नरमृगपशवो नैव मुक्तिं विजग्मुः। एकः श्रीवीतरागः परमपदसुखे मुक्ति( मार्गे)विलीनो वन्द्यस्तेना(गाय)जैनः सुरगण(म)नुजैः सर्वसौख्यस्य
हेतुः ॥७४॥ इति श्रीक्षेत्रात्मज ( सूत्र )भृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे जिनमूर्तिचतुर्विंशतियक्षयक्षिण्यधिकारो नाम सप्तमोऽध्यायः ॥ ७॥
For Private And Personal Use Only