________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१
सप्तमोऽध्यायः मातुलिङ्गं गदावाणं शक्तिः पाशं धनुस्तथा। पद्मं च नकुलं चेति दक्षिणाधःकरक्रमात् ॥५६॥
[इति वरुणः २०] वरदन्ता गौरवर्णा सिंहारूढा सुशोभना। वरदं चाक्षसूत्रं त्रिशूलं च बीजपूरकम् ॥ ५७ ॥
[इति वरदन्ता २० ] भृकुटि(नेमि ? नमि)नाथस्य पीतस्त्र्यक्षश्चतुर्मुखः। वृषवाहो मातुलिङ्गं शक्तिश्च मुद्गराभयौ ॥ ५८ ॥
[इति भृकुटिः २१] अक्षं वज्र परशुलं नकुलं (माथातस्तु?)। गान्धारी वरखड्गं खेटं लुङ्गं हंसारूढा सिता
___ (प्रोक्तकायो? ) ॥५६॥
[इति गान्धारी २१] नेमिनाथस्य गोमेधो नर(स्थास्त्रिमूषर ? स्थस्त्रिमुखः) सितः। बीजपूरं पशुचक्र शक्तिशूलं च नाकुलम् ॥ ६०॥
[इति गोमेधः २२] सिंहारूढाऽम्बिका(याश्च लुवी गयाकुलम् ? )। अङ्कुशं च तथा (पु?पत्र) त(था?स्या) हस्तेषु कारयेत् ॥६१॥
[इति अम्बिका २२] ६९। अक्षमिति । अर्धमिदं किं भृकुटेरायुधप्रतिपादनपरमाहो गान्धार्या इति न निश्चिनुमः। द्वाभ्यां द्वाभ्यामर्धाभ्यामेकैकस्य लक्षणसमाप्तिरित्यस्मिन् प्रकरणे दृश्यते, तत्क्रमादरे तु गान्धार्या आयुधप्रतिपादनपरमिदमर्धमिति भवति ।
अक्षवज्रपरशुनकुलं(मथानुस्तु ?)गान्धारी यक्षिणी ।
वरखड्गखेटलुङ्ग हंसारूढा(स्तिता कायो?)॥ इति रूपावतारे एतन्मतप्रतिपादकम् अपरित्यक्तमूलदोषविषमं पद्यम् ।
६१। 'सिंहारूढाम्बि(काका)कार्य?) उमनागपाशकम्' इति रूपावतारपाठपर्यालोचनया 'सिंहारूढाम्बिका मातुलिङ्गञ्च नागपाशकम्' इति पूर्वार्धे पाठः सम्भाव्यते ।
For Private And Personal Use Only