________________
Shri Mahavir Jain Aradhana Kendra
१४०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्त्तिप्रकरणम्
कुन्थनाथस्य गन्ध (र्वो हिंस ? र्वः सिंह) स्थः श्यामवर्णभाक वरदं नागपाशं चाङ्कुशं वे बीजपूरकम् ॥ ४८ ॥
[ इति गन्धर्वः १७ ]
गौरवर्णा मयूरस्था वीजपूर त्रिशूलने । (पद्ममुषंधिका ? ) चैव स्याद् बला नाम यक्षिणी ॥४६॥
[ इति बला १७ ]
अरुनाथस्य यक्षेन्द्रस्त्रिनेत्रः शेषवाहनः । षण्मुखः श्यामवर्णा (स्या ? स्यो) मातुलिङ्गं शिरस्तथा ॥५०॥ खड्गं मुद्गरपाशौ चाभयाक्षाङ्कुशशूलकम् । खेटं धनुश्च नकुलं भुजा द्वादश कीर्त्तिताः ॥ ५१ ॥
[ इति यक्षेट् १० ]
धारिणी यक्षिणी नीलपद्मवर्णासनस्थिता । मातुलिङ्गोत्पलं चाक्षमालाप करेषु च ॥ ५२ ॥
[ इति धारिणी १८ ]
मल्ल (सुतः ? सितः) (कुषोरोह? कुबेरोऽथ) रथारूढश्चतुर्मुखः । वरपशु लमभया मुदरं शक्तिलुङ्गकम् ॥ ५३ ॥
[ इति कुबेरः १९ ]
कृष्णवर्णा चतुर्हस्ता पद्मस्था धरणप्रिया । वरदं चाक्षसूत्रञ्च शक्तिर्वै मातुलिङ्गकम् ॥ ५४ ॥
For Private And Personal Use Only
[ इति धरणप्रिया १९ ]
त्रिनेत्रो वरुणो यतो धवलो मुनिसुव्रते । वृषवाहश्चतुर्वक्तो जटामुकुटमण्डितः ॥ ५५ ॥
१३ । पशु लमिति वरदमित्यादिवद बाहुविशेषणम् ; पशुः परशुपर्यायः ।