________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः धनुश्चक्रञ्च नकुलं दक्षिणाधाकरक्रमात् ।
[इति षण्मुखः १३] पद्मस्था विदिता पीता बाणपाशाहिकामुकम् ॥४१॥
[इति विदिता १३] पाताल (त्रि ? स्त्रि) मु (खा ? खोऽ) नन्ते
रक्ता? क्तो) मकरवाहनः। पद्मखड्गं तथा पाशमक्षं खेटश्च नाकुलम् ॥ ४२ ॥
[इति पातालः १४ ] अङ्कुशी गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा। खड्ग (स्त ? न्त ) था नागपाशमङ्कुशं खेटकं तथा ॥४३॥
. [ इत्यङ्कुशी १४] किन्नरस्त्रिमुखो धर्मे लोहि( ते ? तः ) कूर्मवाहनः। बीजपूरं गदां चाभयातमा [ला ] जनाकुलम् ॥ ४४ ॥
[इति किन्नरः १५] कन्दर्पा गौरवर्णा स्यान्मत्स्यारूढा चतुर्भुजा। उत्पलं चाकुशं हस्तेऽभयं पद्मं क्रमाद् भवेत् ॥ ४५ ॥
[इति कन्दर्पा १५] गरुडः शान्तिनाथस्य श्यामः शूकरवाहनः । वाराहवदनो बीजपूरपद्माक्षनाकुलैः॥ ४६॥
। [इति गरुडः १६] निर्वाणो गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा। पुस्तकं चोत्पलं पद्मं कमण्डलुः क्रमाद् भवेत् ॥४७॥
_[इति निर्वाणी १६] ४१ । बहुबाहुरयं षण्मुख इति सम्भाव्यते आयुधबाहुल्यदर्शनात् । ४२ । त्रिमुखत्वात् पातालः षड्भुज इति षडेवाऽऽयुधानि । ४४। किन्नरोऽपि त्रिमुख त्वात् षड्भुजः ।
For Private And Personal Use Only