SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमोऽध्यायः -:*: [अथ चतुर्विंशतिस्तीर्थङ्कराः] (१)ऋषभाश्चा(२)जितश्चैव ((३)सभवेश्या?सम्भवश्चा)(४)भिनन्दनः। (५)सुमतिः (६)पद्मनाभश्च ((७)सूर्याश्रे?सुपार्श्वः) सप्तमानतः ॥१॥ (८)(चन्द्रःचन्द्र) प्रभः ()पुष्पद(न्त ? न्तः) (१०)शीत(ला ? लो) दशमो मतः। (११)श्रयांसो (१२)वासपन्यश्च (१३ विमलो(१४)ऽनन्त((१५)तक्षकः? धर्मकों)॥२॥ (१६)शान्तिश्च(१७-१८)( पुथारु ? कुन्थनाथार) (१९मल्लयो (२०)मुनिसुव्रतः। (नाभि या ? (२१)नमि (२२)नेमि-पा(२३))र्श्वनाथो(२४)वर्धमान स्ततः परम् । चतुर्विशतिरित्येते मतास्तीर्थङ्करा बुधैः ॥३॥ १-३ । यावद् दैवतमूर्ति कर्तुकामः सम्प्रदायविशेषाणामेव तामभिधाय यद्यन्तरा विरमेतदाऽवशिष्टाऽपि जैनदेवतानां मूर्तिः किमनेनाज्ञानादवज्ञानाद्वोपेक्षितेति शिष्याणां प्रमो मा भूदिति जिनानां मूर्तिमाह-ऋषभ इति । जिनाश्च सर्व एव समानाकृतयश्च इति तेषां मूत्तौँ विशेषमनभिधाय विशेषवतीस्तच्छासनदेवतानां मूर्तीरेवाग्रे लक्षयिष्यतीति ज्ञेयम् । जैनानां समये उत्सर्पिण्यवसर्पिणीति द्विधा युगानि भिद्यन्ते । तत्रावसर्पिण्यां जना उन्नताः क्रमेणावनति प्रपद्यन्ते, उत्सर्पिण्याञ्चावनता जनाः क्रमेणोन्नतिं लभन्ते । अवसर्पिणी अतीतयुगस्य उत्सर्पिणी वर्तमानयुगल्य संज्ञा। अवसर्पिण्याख्ये व्यतीतयुगे चतुर्विंशतिस्तीर्थङ्करा विलीनाः, धर्तमाने उत्सर्पिण्याख्ये युगे पुनर्विशतिरुदबभूवुः। तेषामेवायमधिकारः कालः, त एव च जैनैर्देवाधिकत्वेन पूज्यन्ते मन्यते च देवा अप्येतानचंयन्तीति । अन्न व वर्तमानयुगीयतीर्थङ्कराणामेव मूर्तिः क्रमेणोल्लिखितेति ज्ञेयम् । रूपमण्डने पुनः-'एतस्या(मिष ? मव) सर्पिण्या (?) पभो (जिन ? ऽजित ) सम्भवः' (अ० ६, श्लो०) इत्युपक्रमो दृश्यते । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy