SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३२ www.kobatirth.org देवतामूर्त्तिप्रकरणम् [ जिनानां वर्णाः ] रक्तौ च पद्मप्रभवासपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णो पुनर्नेमिमुनी च नीलौ श्रीमल (पाचै ? पार्श्वे ) कन (कालिषा ? करिवषोऽ) न्ये ॥ ४ । Acharya Shri Kailassagarsuri Gyanmandir ऋषभ इति अस्याssदिनाथ इति नामान्तरम् । ( ६ ) पद्मनाभस्यापि पद्मप्रभ इति नामान्तरं रूपमण्डने (अ०६, लो० १), शीलरत्नसूरिकृते चतुर्विशतिजिनस्तुतिसंग्रहाख्ये ग्रन्थे चोपलभ्यते । ग्रन्थकृताऽप्युत्तरत्र वर्णनिर्णयावसरे 'पद्मप्रभ' इत्येव नाम धृतमिति द्वयमपि साधु | सप्तमानत इति सुपार्श्वः सप्तम इत्यर्थः । (८) चन्द्रप्रभ इति, चन्द्रप्रभुरिति जिनस्तुतौ सूचनायामुपलभ्यते । मूलग्रन्थे पुनः 'चन्द्रप्रभ त्रिभुवनाधिपते प्रसीद सौभाग्यसुन्दरविभो कुशलाचलीद' इति यथोक्तमेव नाम दृश्यते । यच्च जैनपद्मपुराणे 'शशिभृत्प्रभुः' ( पर्व० २० श्लो० ८ ) इत्युपलभ्यते, तत्र 'शशभृत्प्रभः ' 'शशभृत्प्रभु'र्वा भविष्यतीति सम्भावयामः । (९) पुष्पदन्त इत्यस्य रूपमण्डने ( अ० ६, श्लो० २), जिनस्तुतौ, पद्मपुराणे च 'सुविधि 'रिति नाम । यद्यपि 'तक्षक' इत्यत्र लिपिकृत्प्रमादबुद्ध 'धर्मक' इति कल्पनमतिसाहसं तथाsपि यथार्थपाठोद्धारे बद्धपरिकराणामस्माकं न केवलं लिपिकृत्प्रमादोच्छेदे तात्पर्यं सङ्कोचनीयम् दर्शितमेतदर्वाग् दर्शयिष्यते चेत ऊद्ध मपि । उपलभ्यते च 'धर्मक' इति नाम जैनपद्मपुराणादौ रूपमण्डने च ( अ० ६, श्लो० ३१ ) । एवञ्च 'पुष्पदन्त' इत्यत्राप्यपेक्षिता शुद्धिर्न कृतेति न्यूनतां छन्दस्यायता कथञ्चित् सुखमनुभूयते । यद्वा उभयत्राप्यनपेक्षिता शुद्धिस्तन्त्रान्तरे तथाविधाभिधानस्य सम्भवादिति दिक् । तथाच 1 नीति | नाथपदस्य सर्वत्रैवान्वयः, नमिनाथो नेमिनाथः पार्श्वनाथश्चेति । किञ्च ऋषभ इत्यादीनि सर्वाण्येव नामानि नाथान्तानीति ज्ञेयम् । वर्धमान इत्यस्य महावीर इति नामान्तरम् अस्यैवायं शासनकालः । तथाच - 'पश्चिमो वीरो शासनं यस्य वर्त्तते' इति ( जै० प० २०१०) ४। जिनानां वर्णानाह – रक्तौ चेति । जैनपद्मपुराणे पुनरन्यथैव वर्णनिर्देशः । चन्द्राभश्चन्द्रसंकाशः पुष्पदन्तश्च कीर्त्तितः । प्रियङ्गुमञ्जरीघर्णः सुपार्श्वो जिनसत्तमः ॥ अपक्कशालिसङ्काशः पार्श्वो नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ॥ किंशुकोत्करसंकाश वासुपूज्यः प्रकीर्त्तितः । नीलाञ्जनगिरिच्छायो तीर्थकृत् ॥ मयूरकण्ठसंकाशो जिनो यादवपुङ्गवः । सुतप्तकाञ्चनच्छायाः शेषा जिनवराः स्मृताः ॥ इति ( पर्व ० २० लो० ६३—६६)। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy