SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः [ धनर्णयोन्यानयनम् ] उत्तुङ्गे वसुनन्दाग्निगुणेष्ट (काशभिर्ह ? काष्टभि ) ते । शेषं धनमृणञ्चैव (योजितं ? योनित्वं) स्याद् यथाक्रमम् । धना (दिक? धिक) मृणक्षीणं मानं तत् सम्प( दा ? दां) पदम् ॥ ६२ ॥ अस्ति चैषामंशानां करणषट्के प्राधान्यद्योतको हृद्य. प्रशंसावादोऽपि तत्रैव ११७ चतुर (ङ्गो ? ङ्गे) यथा ( मन्त्रो ? मन्त्री ) मुख्यो लग्ने नवांशकः । तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकन्त्रयम् ॥ इति । ( अ० २६, श्लो० ३८-३९ ) अशेषु निन्दितानंशानाह - तस्करमिति । 'निन्दितं वास्तुपाठकैः' इति शिल्परले ( पूर्व० अ० १५, श्लो० २८ ) पाठरतम् । ९२ । सम्प्रत्येकोपक्रमेण धनर्णयोनीनामानयनप्रकारमाह त्रिभिः पादैः – उत्तुङ्ग इति । प्रासादस्य लिङ्गस्य वा उत्तने औन्नत्ये औन्नत्यपरिमापके हस्तादावित्यर्थः, वसुना अष्टभिः नन्देन नवभिः अग्निना त्रिभिच गुणे गुणिते, अष्टकाष्टभिरिति - अष्ट च कः सूर्योऽर्थाद् द्वादशष्ट अष्टकाष्ट तैः अष्टकाष्टभिः अष्टभिर्द्वादशभिरष्टभिश्च हृते विभाजिते यथाक्रमं धनम् ऋणं योनित्वञ्च स्यात् तथाच - अष्टभिर्गुणिते अष्टभिर्हतेऽवशिष्टं धनम्, नवभिर्गुणिते द्वादशभिर्हतेऽवशिष्टं ऋणम्, त्रिभिर्गुणितेऽष्टभिर्हतेऽवशिष्टं योनित्वमिति निष्कर्षः । अत्र श्लोके गुणनसंख्यास्तिस्रः स्पष्टत उपलभ्यन्ते 'वसुनन्दानी' त्यनेन ; हरणसंख्या स्वस्पष्टेति गुणनसंख्यासाम्यपर्यालोचनया 'अष्टकाष्टभिरिति पाठं परिकल्प्य अष्टभिर्द्वादशभिरष्टभिरिति कष्टेन कल्पितोऽर्थः, ततश्चैतद्भागफलानां त्रित्वात् संख्येयानामपि त्रित्वमावश्यकमिति बुद्धया, 'यथाक्रम' पदोपात्तक्रमान्ययानुपपत्त्या 'योजित 'पदस्यानर्थक्यानुसन्धानेन च 'योनित्व'मिति पाठः शुद्धत्वेन कल्पितः । यद्यपि 'योनिले 'त्येव पाठः साधीयान् तथाऽपि यथाशोधितमेवान्यत्रेोपलब्ध्या अक्षरसाम्यभूम्ना च तथा कल्पितम् । इदमत्र द्रष्टव्यम् - योनिः यथोक्तगुणहाराभ्यामेव सर्वत्राऽऽनीता । आभिः संख्याभिनर्णयोरानयनन्त्वन्यत्र नोपलभ्यते । तथाच शिल्परत्ने - For Private And Personal Use Only अष्टाते रहतेऽथ शेषस्त्वायोऽथवाऽत्रापि तिथिस्तु तिथ्या । मागे नवने व्यय एव दिग्भिर्भवेदिदं देशवशात् प्रवेभ्यः ॥ ( पूर्व० भा० अ० १५, श्लो० ३१) इति । एवमत्र अष्टाभिर्गुणिते मत्रभिर्हते आयः, नवभिर्गुणिते दशभिर्ह ते व्यय इति कल्पितम् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy