________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूत्तिप्रकरणम् [तस्कराचंशानयनम् ]
नक्ष(त्रञ्चत्रे च) चतुर्गणे ॥६॥ नवभिर्हरणे (षष्ठमश्यकं ?शेषमंशक) तस्करं तिरादि)कम् । भुक्तिमुक्तिधनं (राज्ञा षडं का ? राजा पण्डञ्चाभयक) वियत् । तस्करं (विषखण्डन्तु ?वियत् षण्डन्तु)
निन्दितञ्च सुपाठ(के?कैः) ॥१॥ मिति अश्विन्यादिनक्षत्रम्। शेषसंख्यया नक्षत्रज्ञानञ्च-यथोक्तगुणहरणाभ्यामेकस्मिन्नवशिष्टे अश्विनी, द्वयोर्भरणी त्रिषु कृत्तिकेति क्रमेण। इयमेव रीतिः काश्यपे। तथाच
* * * अंशमष्टगुणीकृते ।
सप्तविंशतिहच्छेषमश्विन्यादिक(कं ?)सम्भवेत् ॥ (अ० ५०, श्लो० ५१) इति । समराङ्गणसूत्रधारे तु प्रकारान्तरेण नक्षत्रानयनमुपदिष्टम् । तत्र हि सप्तविंशतिनक्षत्राणि जन्मसम्पदादिसंज्ञया नवधा विभक्तानि ; अत एव तत्र हरणमपि नवभिः कृतम् । तथाच
गणयेत् स्वामिनक्षत्राद यावत् स्याद् भवनस्य भम् । नवभिर्भाजिते तस्मिन् शेषं तारा प्रकीर्तिता ॥
(समराङ्गण० अ० २६, श्लो० ४०-४१), एवमेव शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० १३-१४)। अयमेव हि प्रकारः साधीयान्, एकप्रयासेनैव नक्षत्राणां तच्छुभाशुभानाञ्चाधिगमकत्वात् । __ ९१। अंशानयनप्रकारमाह-नक्षत्रे चेति । नक्षत्रे नक्षत्रमाने चतुर्गणे चतुर्भिर्गणिते नवभिहते विभाजिते च शेषमंशक भवेत् । तेषां संज्ञामाह-तस्करमिति । ___ 'युगवृद्धा नवे हासे त्वंशकं तस्करादयः' (अ० ४९, श्लो० १०३) इति काभ्यपे यथोक्तावेव गुणहारौ। परमस्ति नाम्नि विप्रतिपत्तिः। तथाच
तस्करं भक्तिशक्तिश्च वनं राजञ्च षण्डकम् ।
अभयं धनमणञ्चैव नघांशकमुदाहृतम् ॥ (अ० ५०, श्लो० ६१) इति। एवं शिल्परत्रेऽपि (पूर्व० अ० १५, श्लो० २७-२८) नामभेदो विद्यते। नवता तु प्राचीनैव । समराङ्गणसूत्रधारे पुनर्गुणहारयोर्नाम्नि संख्यायां च विप्रतिपत्तिः। तथाच
व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च । भागं विभिहरेत्तत्र यच्छेषं सोऽशको भवेत् ॥ इन्द्रो यमश्च राजा च त्रयो मामभिरंशकाः । स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च ॥ (अ० २६, श्लो० ३७.४०)
For Private And Personal Use Only