________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
षष्ठोऽध्यायः
अथ लिङ्गानि अष्टलोहानि लिङ्गार्थे स्वर्ण रौप्यञ्च ताम्रकम् । कांस्यपित्तलवङ्गानि नागं लोहं तथाऽष्टमम् ॥५६॥
[धातुलिङ्गमानम् ] एकाङ्गुलाद् धातुमयं यावदष्टाङ्गुलोदयम् ।
एकैकस्याङ्गलस्याष्टो लिङ्गान्यष्टौ ततः पुनः॥६॥ ६९। अथ लिङ्गान्याह-अष्टलोहानीति। एतेऽष्टौ धातव एवाष्टलोहनाम्नाऽभिधीयन्ते लोहशब्दस्य धातुपर्यायेऽन्तःपातात् । तत्र वङ्ग रङ्गापरनामा धातुविशेषः, नागं सीसकम् । लिङ्गफलान्युक्तानि रूपमण्डने (अ०४, श्लो० ३७-४१)।
स्थिरलक्ष्मीप्रदं हैमं राजतञ्चैव राज्यदम् । प्रजावृद्धिकरं ताम्र पाङ्गमायुर्विवर्धनम् ॥ विशेषकारक कांस्यं पित्तलं भुक्तिमुक्तिदम् । सीसकञ्च शवल्लिङ्गम् आयसं रिपुनाशनम् ॥ अष्टलोहमयं लिङ्ग कुष्ठरोगक्षयापहम् । त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ॥ आयुष्यं हीरकं लिङ्ग भोगदं मौक्तिकोद्भवम् । मुखकृत् पुष्परागोत्थं वैदूर्य शत्रुमर्दनम् ॥ श्रीप्रदं पद्मरागञ्च इन्द्रनीलं यशःप्रदम् ।
लिङ्ग मणिमयं पुष्ट्यै स्फाटिक सर्वकामदम् ॥ इति । शिल्परत्नेऽपि प्रायेणैवमेव फलानि । (शिल्प० उत्तरभाग० अ० १, श्लो० ३८.४१)।
६०। एकाङ्गलादिति। धातुमयानि लिङ्गानि एकाङ्गलादारभ्य यावदष्टाङ्गलमुन्नतानि स्युः। एवञ्चाष्टौ लिङ्गानि भवेयुः, ततः पुनरेकैकस्याङ्गलस्याष्टौ लिङ्गानि भवेयुः, स्वर्णरौप्यादिभेदेनेत्यर्थः, इति व्युत्क्रमेण व्याख्येयम् । तथा च एकाङ्गलादष्टाङ्गलान्तानि स्वर्णलिङ्गान्यष्टौ, एवं राजतानि एवं ताम्राणीत्यादि। यद्वा एकैकस्य अङ्गुलस्याष्टौ लिङ्गानीति वक्ष्यमाणमनोहरादिसंज्ञाभेदेनेत्यर्थः, तथाच एकाङ्गलादष्टाङ्गलान्तानि मनोहरलिङ्गान्यष्टौ एवं श्रीमुखलिङ्गानीत्यादि। अत्र च पक्षे अविशेषाद वक्ष्यमाणेषु शैलदारवादिलिङ्गेष्वप्येवं भेदस्याऽऽवश्यकत्वेनास्योपलक्षणपरत्वं व्याख्येयम् । ___ यद्वा, तृतीयपादे 'एकैकस्याङ्गल्यस्यद्धर्या' इति कृतशुद्धिः पाठः। ऋद्धिर्वृद्धिरिति नार्थान्तरम् । तथाच एकाङ्गुलादारभ्य एकैकस्याङ्गलस्य वृद्धा लिङ्गान्यष्टौ भवन्ति । शिल्परस्त्रे अङ्गुलीनां वृद्धेस्तारतम्यतो लौहलिङ्गस्य द्वैविध्यमुक्तम्। तथाच
देवता-१४
For Private And Personal Use Only