________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
देवतामूर्तिप्रकरणम् द्वाभ्यां वै गजचर्म स्यान्मुण्डमालाविभूषितम् । (इदाई)शं कारयेत् प्राज्ञश्चण्डभैरवमुत्तमम् ॥ ५१॥
इति चण्डभैरवः। विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् । सर्प चक्र गदामक्षसूत्रं बिभ्रत् कराष्टके ॥ ५२ ॥ खेटं खटाङ्गशक्ति(श्चञ्च) परशुतर्जनीघटम्। घण्टाकपाल(क्तौकी) चेति (वामार्धा,वामोर्वा)दिकराष्टके ॥५३॥
इति विरूपाक्षः। त्र्यम्बकोऽपि दधचक्रं डमरूं (मुदरं ? मुद्गरं) शरम्। शूलाङ्कशाहिजाप्यञ्च दक्षोभंदिकराष्टके ॥ ५४॥ गदाखटाङ्गपात्राणि कार्मुकं तर्ज(नी ? नीं) घटम् । परशु पदिशं चैव वामोर्दादिक्रमेण वै॥ ५५ ॥
___ इति त्रयम्बकः। कार्यो हरिहर(स्या?श्चा)पि दक्षिणार्द्ध सदाशिवः। वामार्द्ध च हृषीकेशः श्वेतनीलाकृ(तिः?ती) क्रमात् ॥५६॥ व(रंगर) त्रिशू(लंगल) चक्राब्जधारिणो बाहवः क्रमात् । दक्षिणे वृष(भेदभः) पार्श्वे वामे विहगराडिति ॥ ५७॥
इति हरि-हरमूर्तिः। कृष्णा?ण्ण)शङ्करसंयोगाद् द्वात्रिंशभेद-(मर्जयः ? मूर्तयः)। नोदिता ग्रन्थबाहुल्याज (ज्ञेयादियार्णवा?) बुधैः ॥ ५८ ॥
१४-१५ । अहिजाप्यमिति अहिः सर्पः जाप्यं जपसाधनमक्षसूत्रमिति यावत् । गदाखटाङ्गेति । पानं नृकपालम् । एतेनायं षोडशभुज इति सिद्धम् । पूर्वोक्तो विरूपाक्षोऽपि तथा।
For Private And Personal Use Only