SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ देवतामूर्तिप्रकरणम् [ धातुलिङ्गनामानि ] (१)मनोहरं (२)श्रीमुखञ्च (३)रुद्रतेजो(४)महोत्सवम् । (५)आनन्दञ्च (६)सुवस्त्राख्यं (७)स्त्रीपुंज (८)नन्दिवर्धनम् ॥६१॥ [धातुलिङ्ग विशेषः] (लोहालौहं) मिश्रं न कर्त्तव्यं स्वमा(त्रं योनित्रयोनि)संयुतम् । [रत्नलिङ्गम्] कर्त्तव्यं धातुलिङ्गस्य प्रमाणेन हि रत्नजम् ॥६२॥ इति धातुरनलिङ्गानि । अष्टाङ्गुलं समारभ्य (द्विद्वय ? चाष्टा )गुलधिवर्धनात् । लौहानि नव लिङ्गानि निहस्तान्तानि कारयेत् ॥ तथाऽष्टाङ्गुलमारभ्य द्विद्वाङ्गुलविवर्धनात् । निहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥ (उत्तरभाग० २ अ० ५४-६५ श्लो०) इत्यादौ अष्टाङ्गुलवृद्विभाजि नव लिङ्गानि, अनन्तरञ्च द्विद्वाङ्गुलवृद्विभाजि त्रयस्त्रिंशत्संख्यकलिङ्गानीत्युक्तम् । मानन्तूभयत्रैवाष्टाङ्गलत आरब्धम् । रूपमण्डनेऽपि अष्टाङ्गलारब्धमानकानि अष्टाङ्गुलवृद्धिमन्ति नवैव लौहलिङ्गानि । तथाच धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । निहस्तान्तं नवैव स्युलिङ्गानि च यथाक्रमम् ॥ इति । (अ० ४, श्लो० ५१)। एवञ्च स्वकृताद रूपमण्डनात् परकृताच्छिल्परत्नाच्चान्यादृशस्यास्य धातवलिङ्गानां लक्षणस्य मूलमन्यत्र शास्त्रारण्येऽनुसन्धेयम् ।। ६१। अष्टानां धातवलिङ्गानां नामान्याह-मनोहरमिति। एतानि नामानि नान्यत्रोपलभ्यन्ते । एवमुत्तरत्रापि दारुजादिलिङ्गानाम् । शिल्परत्ने अष्टादशलिङ्गनामान्युक्तानि (शिल्प० उ० अ० २, श्लो० १-५ )। ६२। लौहमिति। लौह धातवं लिङ्ग मित्रं धात्वन्तरसंयुतं न कर्तव्यम् । यद्यपि धातुष्वपि केवनान्योन्यसंकरजन्मानो वर्तन्ते, अत एव तानुद्दिश्य निन्दाऽपि श्रूयते मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि । पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ॥ इति । (शिल्प० उ० अ० १ ४१-४२ श्लो०) तथाऽप्यद्यतन मिश्रणव्यावृत्त्यर्थमेतदित्यनुसन्धेयम् । यद्वोत्तरपादे पीठिकालक्षणघटकीभूत स्वमात्र' For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy