________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठोऽध्यायः
खट्टाङ्ग (चक्र ? चक) पालञ्च खेटकं पाशमेव च । वामहस्तेषु कर्त्तव्यं ( हस्तानां (?) शस्त्राणां च चतुष्टयम् ॥११॥ त्रिशूलं परशु खड्गं ( चण्डं ( 2 ) चक्रं चैवारिमर्दनम् । दक्षिणेषु करेषु स्यादेतच्छस्त्रचतुष्टयम् ॥ १२ ॥
इत्यघोरः ।
Acharya Shri Kailassagarsuri Gyanmandir
पीताम्बरधरं देवं पीतयज्ञोपवीतिनम् । मातु (लिलु) ङ्गं करे वामे अक्षसूत्रञ्च दक्षिणे ॥ १३ ॥
इति तत्पुरुषः ।
शुद्धस्फटिकसङ्काशं जटाचन्द्रविभूषितम् । त्र्यक्षं दक्षे विशूलञ्च वामहस्ते कपालिनम् ॥ १४ ॥
इतीशः ।
कपालमालिनं श्वेतं शशाङ्ककृतशेखरम् । व्याधचर्मधरं भद्रं नागेन्द्रासनभूषितम् ॥ १५ ॥ त्रिशूलं चाक्षसूत्रञ्च कारयेद्दक्षिणे करे । कपालं कुण्डिका पाशं योगमुद्रा करद्वये ॥ १६ ॥
इति मृत्युञ्जयः ।
एकवक्त लिनेवं च शशाङ्ककृतशेखरम् । बृहद्भालकपालं च कण्ठग्रीवासुशोभितम् ॥ १७ ॥ चतुर्भुजं महाबाहु शूलपङ्कजधृत्करम् । दिव्यरूपधरं देवं वरदाभयपाणिकम् ॥ १८ ॥
इति विजयः ।
चतुर्भुजं महाबाहु शुक्लाक्षिपाणिपादकम् । पुस्तकाभयहस्तञ्च वरदाक्षं द्विलोचनम् ॥ १६ ॥
For Private And Personal Use Only
इति किरणातः ।
ह
१६ । कुण्डिका कमण्डलुः । योगमुद्रा मुद्राविशेषः । तत्स्वरूपं श्रीतत्त्वचिन्तामणौ षोडशप्रकाशे द्रष्टव्यम् ।
१९ । वरदाक्षमिति वराक्षसूत्रकरमित्यर्थः ।