SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णीषं रक्तनेतं रक्तमाल्यानुलेपनम् ॥३॥ जटाकृतचन्द्रदेवं त्रिनेत्रं तुङ्गनासिकम् । महा(रक्तश्वक्त) महाबाहु खड्गखेटकधारिणम् ॥ ४॥ रक्तास्यं रक्तनयनं रक्तकुण्डलधारिणम् । रक्तालङ्कारसंयुक्तं सर्वाभरणभूषितम् ॥५॥ इति वामदेवः। दंष्ट्राकरालविकटास्यं सर्पशीर्ष त्रिलोचनम् । रुण्डमालाधरं देवं सर्पकुण्डलमेव च ॥६॥ भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् । योनिशं (?) कटिसूत्रञ्च वृश्चिकामालिका गले ॥७॥ नीलोत्पलदलश्याममतसीपुष्पसन्निभम् । पिङ्गभ्रूपिङ्गजटिलं शशाङ्ककृतशेखरम् ॥८॥ तक्षकं पुष्टिकञ्चैवं पादौ च नपुरौ कृतौ(?)। अघोरस्य स्वरूपन्तु कालरूपमिवापरम् ॥ ६॥ महावीर्य महोत्साहमष्टबाहुं महाबलम् । वासयन्तं रिपुबलं निवेशो यत्र भूतले ॥१०॥ ६। 'दंष्ट्राकरालवदनम्' इत्येवं कृते छन्दोहानिः पुनरुक्तिश्च परिहते भवतः । रुण्डमालेति, रुण्डं कबन्धः, 'कबन्धो रुण्डमुच्यते' इति हारावली। । योनिशमिति दुरूहास्यास्य पदस्य पाठान्तरमनुसन्धेयम् । वृश्चिकेति दीर्घत्वं छन्दःसौन्दर्यार्थम् । ८। अतसीति क्षुमापुष्पं नीलवर्णम् । ९। तक्षकमिति । अन्न 'तक्षकः पुष्टिकश्चैव पादयो पुरौ कृतौ' इति सुश्लिष्टार्थकः सम्भाव्यमानः पाठः। पुष्टिक इति सर्पविशेषस्य नाम, तक्षकः प्रसिद्धः । १०। निवेशो यत्र भूतले इति । यन्न भूभागे देवस्य निवेशः. स्थितिस्तन्न रिपुबलं त्रासयन्तमित्यर्थः। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy