________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्टोऽध्यायः
10:1
Acharya Shri Kailassagarsuri Gyanmandir
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । जटाभारसमायुक्त' बालेन्दुकृतशेखरम् ॥ १ ॥ त्रिलोचनं सौम्यमुखं कुण्डलास्यमलङ्कृतम् । दिव्यदेहं महाकायं नवयौवनमण्डितम् । महाभुजं महोत्साहं वरदाभयपाणिनम् ॥ २ ॥ इति सद्योजातः ।
१-२ | पञ्चमाध्याये वैष्णवे अशेषविशेषा विष्णुमूर्तीरभिधाय शिल्पिक्रियाऽविषयमपि शिलाचकं प्रसङ्गतो लक्षयित्वा पष्ठेऽध्यायेऽवसरप्राप्तं शैवं लक्षयन् आदौ सयोजातमाहशुक्लाम्बरधरमिति । इतः प्रभृति द्वितीयान्तानां पदानां 'कुर्यादिति वा 'कारयेदिति वाध्याहृतक्रिययाऽन्वयः कार्यः । सर्वाश्चैता मूर्त्तयः शिल्परने ध्येयत्वेन निरूपिताः । तन्मतमनुहरद्भिस्तु 'ध्यायेदि 'त्यध्याहृतक्रिययाऽन्वयः समाधेयः । प्रथमाघोरव्यतिरिक्तास सदाशिवान्तास्वार मूर्त्तिषु अस्या इदं लक्षणमित्यत्र पुष्पिकैच केवलं प्रमाणम् ।
शिल्परले - सद्योजातवामदेवाघोरतत्पुरुषाणां समासतः श्लोकद्वयेन वर्णनमुपलभ्यते । तथाच तत्र 'अथ सद्योजातादिमूर्तयः' इत्युपक्रम्य -
यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरी घामः काश्मीरवर्णोऽभयवरदपरश्वक्षमालो विलासी । अक्षस्रग्वेदपाशाङ्कुशडमरुकखदाङ्गशूलान् कपाल arrot भीमञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥ विद्युदुवर्णोऽथ वेदाभयवरदकुठारान् दधत् पुरुषाख्यः प्रोक्ताः सर्वे त्रिनेत्राविष्टतमुखचतुष्काश्चतुर्बाहवश्च । मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवसूस्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शिवान्ताः ॥
( शि० उ० २३ अ० २०२ - २०३ श्लो० ) इत्युपनिबद्धम् । एतेनैतन्मते अघोरोऽष्टभुजः शिष्टाचतुर्बाहव इत्यायाति । प्रकृते विप्रवदमानेष्वप्यायुधनाम संवदत्येवाघोरस्याष्टभुजत्वम् । areenaraति विद्वदुभिर्विभावनीयम् ।
आयुधानुमितमितरेषां
द्विकरत्वन्तु
देवता - १३
For Private And Personal Use Only