________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः
[ कूर्मः ] काङ्कितास्तु ये चक्रा महासन्ततिदायकाः। महार्थकारका दिव्या हरिस्तत्र व्यवस्थितः ॥ ५३॥
[वराहः ]
वराहमूर्तिसंयुक्तं यदि चक्रं (च ध्यापनम् ? प्रपद्यते)। पूजनालभते राज्यं पृथिव्यामेकराजकम् ॥ ५४॥
[नरसिंहः ] नारसिंहा(ङ्गतं ? ङ्कितं) चक्रं दुर्लभं भुवि मानवैः। शत्रूणां नाशनं तद्धि क्लेशनं परिकीर्तितम् । स्तम्भनं (नर ? पर)सैन्यस्य महामृत्युहरं शुभम् ॥ ५५ ॥
[वामनः] अङ्कितं वामनेन स्याचक्र परमशोभनम् । नानावृद्धिकरश्चैतदन्नाद्यं चाक्षयं भवेत् ॥ ५६ ॥
[जामदग्नाः] चक्रमध्ये तु दृश्येत परशु रामरूपकम् । तज्जामदग्नयं चक्रं यजतादेकराङ्मुखे(?) ॥ ५७ ॥
[कौशल्यानन्दनः ] चक्रेण दृश्यते ब्रह्मन् बाणकामकभृत् प्रभुः।
कौशल्यानन्दनो रामः (सीतायाः तृतीयः) परिकीर्तितः॥५८ भज्येतैव । अभिमत क्रमो ग्रन्थकर्तुरिति लक्ष्यते, कथमन्यथा पूर्व नृसिंहद्वयं निरूप्यापि पुनराहानन्तरं नृसिंह मिरूपयेत् ।
१४। एकराजकमिति राज्यमित्यस्य विशेषणम् , एकच्छवं राज्य साम्राज्यमित्यर्थः । ५५। नारसिंहाङ्कितमिति नरसिंहाकृतिचिह्नन चिह्नितमित्यर्थः । ५७। 'तजामदग्न्यं चक्र स्याद् यजमानोऽपराङ्मुखः' इति स्यात् । तादृशं चक्रमर्चयन् जनः क्वचिदपि विषयेऽकृतकृत्यो न भवतीति तदर्थः।
५८। कौशल्यानन्दमरामलक्षणमाह-चक्रेणेति । एतलक्षण शिलाचक्रबोधिनीधृतवाराहे
For Private And Personal Use Only