SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ देवतामूर्तिप्रकरणम् [कपिलनृसिंहः] नृसिंहं पीतवर्णाभ-महा(वक्त ? चक्र)मुखे गुरुम् । यतीनां (पूजनं देवं ? पूजनादेव) सत्यलोकप्रदायकम् ॥४७ [सुदर्शनम् ] द्वे चक्रे पृष्ठदिगभागे श्यामश्च मधुवर्णकम् । सुदर्शनं शिला नाम पूजितं सुखकामदम् । सान्निध्यं मम मूर्त्या च पूजने च कलाधि(का ? कम्) ॥४८ [हयग्रीवः] अश्वाकृतिस्तथा मुद्रा साक्षमाला सपुस्तका। पद्माङ्किता भवेन्मुद्रा हयग्रीवेति विश्रुता ॥ ४६ ॥ जयदुस्वशुभासक्तो ननः (?) पापात् प्रमुच्यते । अक्षया च भवेत्तस्य लक्ष्मीरैश्वर्यमुत्तमम् ॥ ५० ॥ [मत्स्यः ] मत्स्याङ्किता (शुभे ? स्तु ये) चक्रा आयुर्दा(?) पुष्टिदा नृणाम्। सदा पूज्या गृहस्थेन सन्निधानेऽत्र केशवः ॥५१॥ [ जनार्दनः] एकमुखे चतुश्चक्रं चतुश्चक्रो जनार्दनः । पूजनीयः सदा सौख्यमुक्तिदो नात्र संशयः ॥ ५२ ॥ ४७ । अयं कपिलवर्ण इति पद्मपुराणम् । तथाच कपिलो नरसिंहस्तु पृथुचक्रो महामुखः। ब्रह्मचर्येण पूज्योऽसौ त्रिबिन्दुः पञ्चबिन्दुकः ॥ इति । ४९-५०। अयमङ्कुशाकार इत्यग्निपद्मादिषु। 'जयदुस्वशुभासक्तो ननः' इत्यत्र 'चक्रध्वजसमायुक्तो नरः' इति स्यात्। एवञ्च 'नरः पापात् प्रमुच्यते' इत्येतत्पूजको नर इत्यर्थः । ___ ५२। अत्र क्रमभङ्गः सम्भाव्यते। हयग्रीवात् परमेवास्य स्थान निर्देष्टुं युज्यते । दृश्यते हि मत्स्यादारभ्य क्रमेण दशावतारमुद्रा वर्ण्यन्ते, तत्र यद्यन्तरा जनार्दनोपनिपातः स्यान्ननं क्रमो For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy