________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा रटता ।। ४
पञ्चमोऽध्यायः
[चक्रान्तराणि ] एक(पद्मान्तिका ? चक्रान्विता) या तु दक्षिणार्त
?णावर्त्त) संस्थिता। चतुर्लाञ्छनसंयुक्ता भोगमोक्षप्रदा शुभा ॥ ४१॥ चक्रेण कम्बुना या च (पद्मनादि य अङ्किता ?
पद्मेन गदयाऽङ्किता)। तत्र श्रीः प्रत्यहं तिष्ठत् (सप्त ? सर्व)सम्पदमादिशेत् । लाञ्छनेन विना (यस्य ? या स्यात् ) प्रशस्ता तु न
सा स्मृता ॥ ४२ ॥
[हरिः। चक्र वा केवलं यत्र पद्मं वा(प्यर्थ यद् ? प्यथ वा) गदा । लागलं वनमाला च हरिर्लक्ष्म्या (स हि ? सह) स्थितः॥४३
[एतत्पूजाफलम् ] तस्मिन् गृहे न दारिद्रयं न शोको रोगजं भयम् । न चोराग्निभयं तस्य ग्रहै रोगैर्न बाध्यते। अन्ते मोक्षो भवेत्तस्य पूजनादेव नित्यशः ॥ ४४ ॥
___ [नृसिंहः] विकटास्या तु विकृता नृसिंहमुखलाञ्छना। पाशाङ्कुशगदाचक्रा(प्ये ? ण्ये)वामङ्कन लाञ्छिता ॥ ४५ ॥ नारसिंही भवेन्मुद्रा भोगमोक्षप्रदायिका। दर्शनान्नभ्यते पापं ब्रह्महत्यां व्यपोहति ॥ ४६॥
४१-४२ । या शिला एकचक्रान्विता, दक्षिणावर्त्तसंस्थिता चतुर्लाञ्छनसंयुक्ता ८ सा भोगमोक्षप्रदेत्यन्वयः । चतुर्लाञ्छनेत्यस्य विवरणं चक्रेणेत्यादि।
For Private And Personal Use Only