________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[वर्णक्रमेण तेषां नामानि ] पुण्डरीकः प्रलम्बप्नो रामो वैकुण्ठ एव च । विष्वक्सेन इति ब्रह्मन् फलञ्चास्याने शृणु।
[यथाक्रममेतेषां फलम् ] मोक्षं मृत्यु विवादश्च दारिद्रयमटनं तथा ॥ ३८॥
[द्विपके चक्रनिबन्धनो विशेषः] चक्रे तु मध्यदेशे स्यात्(त्वा ? तामाख्यामि रमे शृणु। परमेष्ठयजितक्रोधस्तथा नारायणोऽन्तकः ॥ ३६॥ अनन्तश्चे(दिति ? ति वि-)ज्ञेयो नानामूर्तिस्तु यो भवेत् ।
[ यथाक्रममेतेषां फलम् ] राज्यं मृत्यु धनञ्चैव हानिश्च वाञ्छितार्थकम् ॥ ४०॥ स्युरित्यन्वयः । अत्र 'संज्ञाः स्युश्चेति स्यात् । यथाक्रमम् इत्यस्य परत्रान्वयः। द्विवर्ण इति यत्किञ्चिदुवर्णद्वयवानित्यर्थः, बहुवर्णभाग इत्यत्र च दधिक-यत्किञ्चिदुवर्णवानिति । यथाक्रममित्यस्यार्थस्तु-शुक्रः पुण्डरीकः, रकः प्रलम्बन्नः, कृष्णो रामः, द्विवर्णो वैकुण्ठः, बहुवर्णभागे विष्वक्सेन इति। एतेषामर्चनाफलमाह-फलञ्चास्येति । यथाक्रममित्येव । तथाच पुण्डरीकाक्षार्चने फलं मोक्षः। एवं प्रलम्बनायर्चने मृत्व्यादयः । 'अटनमि'त्यत्र 'अर्जनमिति पुराणे पाठः ।
___३९-४० । द्विचक्रे विशेषमाह-चक्रे विति। द्विचक्राणां चक्रे यदि मध्यदेशे स्यातां तदा तेषां परमेष्ट्यादिसंज्ञा भवति, फलञ्च राज्यादिकमिति वर्तुलार्थः। नानामूर्तिरित्यनन्त इत्यस्य विशेषगम् । राज्यमित्यादिद्वितीयान्तपदानां ददातीत्यध्याहृतक्रिययाऽन्वयो द्रष्टव्यः । अत्रेदं विवक्तव्यम्--प्राणतोषणीटतपद्मपुराणे 'वर्णचकादिभेदेन तानि नामानि मे शृणु' इत्युपक्रम्य, 'शुक्लो रक्तस्तथा पीत' इत्यादिसप्तत्रिंशश्लोकादारभ्य 'राज्यं मृत्युम्' इत्यादिचत्वारिंशश्लोकान्तो भागः क्वचित् किञ्चिदंशस्य योगविप्रयोगाभ्यामविकलो वर्त्तते । परं तत्र वर्णतश्चक्रतश्न भिन्नतया द्विविधानामप्यमूषां शालग्रामशिलानां राज्यं मृत्यु विवादञ्चे'त्यायेकमेव फलं निर्णीतमुपलभ्यते न तु प्रकृते इव वर्णतो भिन्नानां 'मोक्ष मृत्यु विवादञ्चे'त्यादि विविक्तं फलम् । विशेषतः पुनस्तत्र 'राज्यं मृत्युम्' इत्यादिद्वितीयान्तपदानामन्वयसमाप्त्यर्थं ददाति पूजितो लोके तस्माद ज्ञात्वाऽर्चयेन्नरः' इत्यर्धमधिकं वर्तते। तदनयोर्वर्ण भिन्नचक्रभिन्नयोः शालग्रामशिलावर्गयोर्युतफलताऽयुतफलता वेति स्मार्तधुरीणा एवं समादधत्विति ।
For Private And Personal Use Only