________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः
त्रिचक्रलक्ष्मीनारायणः 1 लक्ष्मीनारायणो देवस्त्रिभिश्चर्व्यवस्थितः। पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥३२॥
. [मधुसूदनः]
नाभिपाइँ शङ्खपद्मं यस्य मुद्रा प्रदृश्यते। मधुसूदन आख्यातः शत्रुहा परिकीर्तितः॥ ३३ ॥
[दामोदरः] स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्त सः। चक्रे तु मध्यरेखः स्यात् पूजितः सुखदः सदा ॥ ३४॥
[द्विचक्रलक्ष्मीनृसिंहः] वामपार्श्वस्थिते चक्रे कृष्णवर्णे सविन्दुके। लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः ॥ ३५ ॥
[द्विचक्रपुरुषोत्तमः] सुवर्त्तलं तथा पीतं पृष्ठे तु सुषिरं ध्रुवम् । विदितु दिक्षु सर्वासु मुखं यस्यैव दृश्यते । स देवदेवो विज्ञेयः पुराणः पुरुषोत्तमः॥३६॥
[एकचक्रे वर्णकृतो विशेषः ] शुक्लो रक्तस्तथा कृष्णो द्विवर्णो बहुवर्णभाक।
एक (वस्त्रेक? चक्रस्य) पञ्चताः संज्ञाः स्युः पञ्च यथाक्रमम् ॥ ब्राह्मणैर्वासुदेवः पूज्यते इत्ययमेषामसाधारणोऽधिकारः वर्णगुरुत्वादितरवर्ण साधारण चक्रपूजनमप्यविरुद्धम् । एवं नृपैः सङ्कर्षणः पूज्यते इति, अयमेषां क्षत्रियाणां ब्राह्मणसाधारणो वैश्यशूदापेक्षयाऽसाधारणोऽधिकारः। ततश्च सैः सङ्कर्षणप्रद्युम्नानिरुद्वाः पूजनीयाः। प्रद्यम्नः पूज्यते वैश्यैरित्येषां शूदमात्रापेक्षयाऽसाधारणो ब्राह्मणक्षत्रियसाधारणोऽधिकारः। एवञ्च वैश्यैः प्रद्युम्नानिरुद्धौ पूजनीयौ। अनिरुद्वस्तु शूदकैरित्ययमेषां सर्वसाधारणोऽधिकारः। तथाचशूदैरेक एवानिरुद्वः पूजनीय इति फलितोऽर्थः । ___ परं न हि वर्णहीना वर्णोत्तमानां वृत्तिमाददीरनिति न नृपैर्वासुदेवः पूज्यः, न तु वैश्यैर्वासुदेवसङ्कर्षणौ, न च शूदेण वासुदेवसङ्कर्षणप्रद्युम्ना इति। तदेवाहोत्तरश्लोके-चत्वार इत्यादीति । ३७-३८। एकचक्रे विशेषमाह- शुक्ल इति। एकचक्रस्य शुक्लादयः पञ्च संज्ञाः
देवता--११
For Private And Personal Use Only